विवेकचूडामणि
Śloka 197
196
All
198
Glossary
विवेकचूडामणि
Śloka 197
100%
Commentary — व्याख्या
1
तुरवधारणार्थं नत्र संबध्यते ।
2
असंगस्य वस्तुतः संगशून्यस्य "असंगोह्यं पुरुषः" इतिश्रुतेः सुप्तावत्नुभावच्च ।
3
निष्क्रियस्य निर्विकारस्य "निष्कलं निष्क्रियं" इतिश्रुतेः अव्यक्तोयमचिन्त्योयमविकार्योमुच्यते इतिस्मृतेश्च ।
4
निराकृतेः "न तस्य कार्यं कारणं च विद्यते, अस्थूलं अनणु" इत्यादिश्रुतेः
5
भ्रान्तिं विना स्थूलसूक्ष्म-कारण-शरीरेषु तादात्म्याभिमानं विना अर्थसंबन्धः दृश्यसंबन्धः नैव घटेत ।
6
नभसः गगनस्य असंगस्य निष्क्रियस्य निराकृतेः नीलतादिवत् ।
7
उक्तं हि "अप्रत्यक्षं पिह्याकाशे बालास्तलमलिनताढ्यस्यन्ति" इति भाष्ये ।
8
अविवेकिनः गगनमपि नीलं पीतं पटेन इन्द्रियलकटाहु इति कल्पयन्ति एतत् नीलत्वादिकं अप्रामाणिकं न घटते तथेत्यर्थः ।
9
एवं परमात्मन्यपि जीव-भावः अप्रामाणिक इति भावः ।
10
निहि कल्पनामात्रात् गगनं नीलादिरूपं भवति एवं प्रकृतेपि इति बोध्यम् ॥१९७॥
196
All
198
En