विवेकचूडामणि
Śloka 21
Glossary
View Book
Verse
श्लोकः
Expand all
1
तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः।
2
देहादि-ब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि॥२१॥
Śloka 20
All Ślokas
Śloka 22
Commentary
व्याख्या
Expand all
1
ऐहिकदेहादि-भोग्यवस्तुनः दर्शनेन, आमुष्मिक-दिव्यदेहादि-भोग्य-वस्तुनः श्रवणेन, आदिपदेन दृष्टजातीयस्य श्रुतजातीयस्य अनुमानेन।
2
अनुभूयमान-शारीरप्रभृति-ब्रह्मानमें शतवर्षजीवि-चतुर्दश-भुवनाधिपत्यादि-सर्वभोगेषु सर्वेष्वस्मिन् भोग्यवस्तुनि अनित्ये मिथ्याभूते या जुगुप्सा, कदापिदृशपदार्थ-सम्बन्धो माभूदिति, काकविष्ठायामिव सहसा-बुद्धिः तद्वैराग्यम्।
3
"शैत्यं हि यस्या प्रकृतिर्जलस्य" इतिविधेयस्य प्राधान्यात् नपुंसकनिर्देशः तदिति।
4
"स्वदेहाशुचि-गंधेन न विरज्येत पुमान् यः। वैराग्यं तस्य किमकिमद्विद्यस्ताम्"
5
"सततं प्रवहामानैः वृषभैः अश्वैः खरैर्गजैः महिषैः। हा कष्टं दुःखाभ्रां श्रान्तैर्नो शक्यते वक्तुम्"
6
"तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोक: क्षीयते"
7
"भूमन्त्यादातम्" "क्षीणे पुण्ये मर्त्यलोकं विशन्ति"
8
"आब्रह्म-भुवनाल्लोकाः पुनरावर्तिनोर्जन"
9
"सूतसंहितायां यजुर्भवखण्डे सप्तदशोध्याये, सर्ववेदान्त-सिद्धान्तसारग्रहस्थाः: "कुक्षौ स्वमातुर्मलमूत्रमध्ये" इत्यादिना "पुण्यक्षये पुण्यकृतो नभस्थैः निपात्यमानान् शिथिलीकृतांगान्। नक्षत्ररूपेण दिवश्च्युतांस्तान् विचाये कोवा विरतिं न याति"।
10
"यत्रास्ति लोके गतितारतम्यं" इत्यन्ताश्च श्लोकाः वैराग्यविषयेणुसंभेयाः।
11
मानुषदेहादेः रोगाशुपल्लुत्वं, पश्वादीनामत्यन्त-पारतंत्र्यं मुक्तवादि, शब्दादीनां विषयाणां बहुविधानर्थप्रदत्वं कुरंगादिदृष्टान्तेः अनुसन्धानस्य सर्वत्रानात्मसु जुगुप्सा सुलभमेति भावः।
12
एतच्च "शब्दादिभिः पञ्चभिरेव" इत्यादिना स्वयमुत्तरत्रस्पष्टयिष्यते।
Śloka 20
All Ślokas
Śloka 22