विवेकचूडामणि
Śloka 211
Glossary
View Book
Verse
श्लोकः
Expand all
1
नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् ।
2
कार्यत्वहेतोः सुकृतक्रियाया विकारसंघात-समाहितत्वात् ॥२११॥
Śloka 210
All Ślokas
Śloka 212
Commentary
व्याख्या
Expand all
1
अयमानन्दमयः परात्मा मुख्यात्मा नैव।
2
तत्र हेतवः सोपाधिकत्वात् सनिमित्तत्वात् इत्यर्थः इष्टदर्शनादिजन्यत्वात्
3
प्रकृतेः मूलप्रकृतेर्विकारात् विकारत्वात् इत्यर्थः तमोजूम्भितवृत्तेः तथात्वात्।
4
कार्यत्वहेतोः सुकृतक्रियायाः कार्यत्वहेतोः कार्यत्वे पुण्यजन्यत्वे "विभाति" इत्युक्ततया सुखाकारविद्यावृत्तेरपि जागरस्वप्नकालिकायाः पुण्यजन्यत्वात्।
5
विकारसंघात-समाहितत्वात् प्रियादिगुणक इत्यनेन "तस्य प्रियमेव शिरः" इत्यादिश्रुत्या दर्शन-लाभभोग-जन्य-सुखरूपापयव समुदायसंजिनत्वात्।
6
पुण्यवशात् इष्टयेंदर्शनेन लाभे च तमोमिश्रसत्वोद्भवे जायमाना वृत्तिः सुखाकारा अहं सुखीतिरूपा
7
एवं च भोगे "कोयोस्ति सद्वशोमया यक्षे दास्यामि मोदिष्ये" इत्यादिरूपा उत्कृष्यमाणा तासाः पुण्येष्टविषयादिविकारजन्यत्वादित वा अर्थः ॥२११॥
Śloka 210
All Ślokas
Śloka 212