विवेकचूडामणि
Śloka 210
209
All
211
Glossary
विवेकचूडामणि
Śloka 210
100%
Commentary — व्याख्या
1
तामसी सुखाकारवृत्तिः आनन्दमयकोश इत्युक्त्वा सुषुप्तौ तस्य उत्कटत्वं दर्शयति
2
तदानीं पुण्याजन्यस्य स्वरूपसुखस्यैव अविद्यावृत्ति-विषयत्वात्
3
प्रत्यहं आरब्धपुण्यपक्षय एव दैनंदिनप्रलयरूप-सुषुप्तिसंभवात्
4
उक्तं हि सूत्रभाष्ये "अदृष्टमपि भोगप्रसिद्धिः अ प्रलयप्रसिद्ध्यर्थमिति" ।
5
उत्कटा अधिका स्फुतिः स्फुरणं सुषुप्तौ आनन्दमयकोशस्य तदा मुखस्य दुःखासंभवत्वादिति भावः ।
6
तथाप्यज्ञानेनावृतत्वात् न मुख्यानन्द-रूपत्वं ।
7
स्वप्नजागरयोः ईषत् स्वल्पा स्फुतिः इष्टसंदर्शनादिना आदिपदेन लाभभोगपरिग्रहः ।
8
तदा भिन्नविषयकवृत्तिभिः अस्या वृत्तेः नास्यमानत्वात् सुषुप्तौ वृत्यन्तराभावात् उत्कटत्वमिति भावः ॥२१०॥
209
All
211
En