विवेकचूडामणि
Śloka 222
Glossary
View Book
Verse
श्लोकः
Expand all
1
देहं धियं चित्प्रतिबिम्बमेतं विसृज्य बुद्धौ निहितं गुहायाम् ।
2
द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥
Śloka 221
All Ślokas
Śloka 223
Commentary
व्याख्या
Expand all
1
देहमिति। देहं घटवद्वस्थितं स्थूलदेहं धियं स्वच्छतया सूक्ष्मतया च जलवत्तदन्तर्गतां बुद्धिं
2
गुहायां आवारकतवेन अनेकानर्थसंकुलायां गुहासदृश्यां बुद्धौ निहितं च एतं भ्रान्त्या अहमिति प्रतीयमानं चित्प्रतिबिम्बं विसृज्य त्यक्त्वा।
3
पूर्ववत् तटिस्थितं तटित्रयावभासकं द्रष्टारं सर्वसाक्षिणं आत्मानं सर्वान्तरं अखण्डबोधं अपरिच्छिन्नज्ञानस्वरूपं
4
अत एव सर्वप्रकाशं सर्वस्य प्रकाशं सर्वस्य प्रत्यक्षं तेजः आपः अग्नञ् च।
5
असदप्रत्यक्षं वायुराकाशं च। एद्विलक्षणं तद्भिन्नं व्यक्ताव्यक्तिभिन्नमिव वार्थः।
Śloka 221
All Ślokas
Śloka 223