विवेकचूडामणि
Śloka 223
Glossary
View Book
Verse
श्लोकः
Expand all
1
नित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिश्शून्यमनन्यमात्मनः ।
2
विज्ञाय सम्यङ्निजरूपमेतत् पुमान्विपाप्मा विरजा विमृत्युः ॥२२३॥
Śloka 222
All Ślokas
Śloka 224
Commentary
व्याख्या
Expand all
1
नित्यं कालपरिच्छेदशून्यं विभुं देशपरिच्छेदशून्यं सर्वगतं सर्वोपादानतया अन्वयिनं
2
अथापि सुसूक्ष्मं रूपादिरहिततया दुर्ग्रह्यम् "एष सर्वेषु भूतेषु गूढोतमा न प्रकाशते" इतिश्रुतेः।
3
अन्तर्बहिश्शून्यम् "अन्तर्बाह्यमिति श्रुतेः" आत्मनः अनन्यम् अन्ततः न अन्यः अनन्यः
4
आत्मनः ब्रह्मणः भेदरहितं "अयमात्मा ब्रह्मोति" श्रुतेः पूर्वोक्तयुक्तेश्च।
5
यदा अनन्यं न विद्यते अन्यः यस्मात् सः अनन्यः अद्वितीय इत्यर्थः। तम्।
6
आत्मनः निजरूपं वास्तवकस्वरूपं विज्ञाय एतत् पुमान् पूर्वमन्यथा ज्ञातवान् एष एव पुमान् विपाप्मा विगतपापः "ज्ञानाग्निः सर्वकर्माणि" इत्यादिश्रुते।
7
विरजाः निर्गुणब्रह्मनिष्ठतया तत्स्वरूपतया च तापहेतुरजःशून्यः पापस्यापि पुण्यस्यायुपलक्षकं तस्यापि संसारोनिमित्तकर्मशून्यतया विमृत्युः मृत्युसहितसंसार-रहित इत्यर्थः।
8
स्वरूपच्युतिशून्य इति यावत्। भवतीति शेषः। "प्रमादं वै मृत्युमहं ब्रवीमि" इति सनत्सुजातोक्तेः ॥२२३॥
Śloka 222
All Ślokas
Śloka 224