विवेकचूडामणि
Śloka 226
Glossary
View Book
Verse
श्लोकः
Expand all
1
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
2
विज्ञातव्यमतः सम्यग् ब्रह्माभिन्नत्वमात्मनः ॥२२६॥
Śloka 225
All Ślokas
Śloka 227
Commentary
व्याख्या
Expand all
1
ब्रह्मभूतः विद्वान् पुनः संसृत्यै नावर्तते इत्यर्थः।
2
"न स पुनरावर्तते" इतिश्रुतेः।
3
तुरवधारणे।
4
अतः आत्मनः ब्रह्माभिन्नत्वं सम्यक् विज्ञातव्यम् ॥२२६॥
Śloka 225
All Ślokas
Śloka 227