विवेकचूडामणि
Śloka 225
224
All
226
Glossary
विवेकचूडामणि
Śloka 225
100%
Commentary — व्याख्या
1
ब्रह्माभिन्नतविज्ञानं अहंब्रह्मास्मीतिपरोक्षानुभवः भवमोक्षस्य संसारमुक्तेः कारणं
2
येन विज्ञानेन अद्वितीयं निर्भेदं आनन्दं सुखस्वरूपं ब्रह्म संपद्यते प्राप्नोति इत्यर्थः
3
"ब्रह्मविदाप्नोति परम्" "ब्रह्मैव भवति" इति श्रुतेः।
4
"असतो मा सद् गमय मृत्योर्वा असत् सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु" इत्येवैतदाह" इतिश्रुतेः ब्रह्मभाव एव मोक्षः ॥२२५॥
224
All
226
En