विवेकचूडामणि
Śloka 23
22
All
24
Glossary
विवेकचूडामणि
Śloka 23
100%
Commentary — व्याख्या
1
कम्बलव्यजनादिभिः शीतोष्णादि-दुःखप्रतीकारः लोकसिद्धः।
2
तादृश-सामग्र्यभावे किमस्माभिरिति करणीयमिति चिन्ता, प्रलापश्च।
3
विचारसाधन-तितिक्षावास्तथात्वं व्यावर्तयति अप्रतीकारपूर्वकं चिन्ताविलापरहितं यत्सहनं सा तितिक्षेति।
4
दुःखानां दुःखहेतु-शीतोष्णादीनामित्यर्थः।
5
चिन्ताविलापादि-सहितस्य मनसः विचारस्य दूरापासत्वादिति भावः॥२५॥
6
इदानीं वस्तूपलब्ध्यसाधारण-कारणं श्रद्धां निरूपयति। शास्त्रस्येति।
22
All
24
En