विवेकचूडामणि
Śloka 24
Glossary
View Book
Verse
श्लोकः
Expand all
1
शास्त्रस्य गुरुवाक्यस्य सत्यबुध्यावधारणा।
2
सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते॥२६॥
Śloka 23
All Ślokas
Śloka 25
Commentary
व्याख्या
Expand all
1
लोकेपि आप्तवाक्ये विश्वासाभावे नैव तदनुसारेण प्रवर्तते पुरुषः विचारादौ।
2
किमुतातीन्द्रिये शास्त्रार्थे, अतः सा परमकारणम्।
3
उक्तं हि गीतायां "अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसार-वर्त्मनि।" इति।
4
यस्तावतु शान्तो दान्त उपरतस्तितिक्षुश्च स एव "ब्रह्मैकमेव सत्यं तदेव लं अन्यत्सवं मिथ्या" इति गुरुणा वेदान्तैर्वचोभ्यमानं वस्तु विश्वसिति इदमेवमेवेति।
5
नान्यस्तादृश-साधनहीनः इति श्रद्धा तदनन्तरं परिगणिता गुरुवेदान्त-वाक्यविषयिणी।
6
शास्त्रं तत्वमस्यादिशास्त्रं गुरुवाक्यं तदनुसारि "नासित्वं संसारी किन्तु नित्यशुद्ध-बुद्धमुक्तस्वभावं परं ब्रह्मैव अन्यत्सवं मिथ्या" इत्यादिवाक्यं, तस्य, सत्यं अवाघितार्थबोधकं इतिबुध्या, अवधारणा दृढविश्वासः, यया वस्तूपलभ्यते सा श्रद्धा इति सिद्धिः कथितेत्यन्वयः॥२६॥
7
एतादृश-श्रद्धावतएव समाधानं सम्यक्सिद्धचतीति तदनन्तरं समाधानं निरूपयति। सम्यगिति।
Śloka 23
All Ślokas
Śloka 25