विवेकचूडामणि
Śloka 232
Glossary
View Book
Verse
श्लोकः
Expand all
1
सद्ब्रह्मकार्यं सकलं सदैव
2
सन्मात्रमेतत्ततोऽन्यदस्ति ।
3
अस्तीति यो वक्ति न तस्यमोहो
4
विनिर्गतो निवृतिवत्प्रजल्पः ॥२३२॥
Śloka 231
All Ślokas
Śloka 233
Commentary
व्याख्या
Expand all
1
सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव ।
2
परमते सत्कपालिकार्यं घटादि भिन्नमपि सदेवोच्यते ।
3
तद्वेत्याह सन्मात्रमेतत् यथा घटो मृदेव वियदादि ब्रह्मैव न ततोऽन्यदस्ति ।
4
तत्तदुपदेशस्य तदुपादानव्यतिरेकेणासित्वात् ब्रह्मणः तृद्व्यतिरेकेण किमपि नास्तीत्यर्थः ।
5
अत एव श्रुतौ मृतिकेत्येव सत्यमिति इतिपदेन योगः ।
6
मुण्मयं सर्वं सत्यं चेत् मृतिकेत्येव मृतिकालेन सत्यं न स्वरूपत इत्यर्थः ।
7
एवं मृदः तदुपादानरूपेण तस्याः पञ्चीकृतभूत-कार्यत्वात् तद्व्यतिरेकेणाभाव इति तद्रूपेण सत्यत्वम् ।
8
"यदग्ने रोहितं रूपं तेजसस्तद्रूपम् ... त्रीणि रूपाणीत्येव सत्यं" इति श्रुत्यनुसारेण
9
तेषां भूतानां अपञ्चीकृतभूतरूपेण पृथकरणेण पृथिव्याः अरूपेण अपां तेजोरूपेण तस्य वायुरूपतया तस्य वियत्त्वेन तस्य सत्त्वेन इति सद्रूपब्रह्माभिन्नतया किमपि सत्यं न सन्मात्रमेतद्युक्तम् ।
10
ततोऽन्यनास्तीति तदेव स्पष्टीकृतम् ।
11
एवं स्थितेऽपि अस्तीति यो वक्ति ब्रह्माभिन्नतया वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न विनिर्गतः नष्टो नाभूत्
12
निवृतिवत् निवृतिस्येव प्रजल्पः यथा सुप्तः अनन्विताथ्र्कं किंवा किंवा असंबद्धं वदति तथत् विचारज्ञानमन्तरा कथनं उपादानव्यतिरेकेण कार्यमस्तीति ॥२३२॥
Śloka 231
All Ślokas
Śloka 233