विवेकचूडामणि
Śloka 233
232
All
234
Glossary
विवेकचूडामणि
Śloka 233
100%
Commentary — व्याख्या
1
श्रौती सामान्यतः वैदिकीति, विशेषत आह अथर्वनिष्ठेति ।
2
अथर्वनिष्ठा अथर्ववेदघटकभूता अथर्वाध्याय-ब्रह्मायेष्ठपुरिनिष्ठा वा श्रौती वैदिकी अत्यन्तवरिष्ठा वाणी
3
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इतिरूपम् इदं विश्वं सर्वं जगत् ब्रह्मैव नातिरक्तिमेत्येव एकाकारेण पृथक् सत्तां निषिध्य ब्रूते
4
यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वम् ।
5
हि निश्चयः आरोपितस्य कल्पितस्य अधिष्ठानाद् भिन्नता न ।
6
एतेन अज्ञानादेरनादेः ब्रह्मोपादानकत्वाभावात् भिन्नत्वशंका परास्ता ॥२३३॥
232
All
234
En