विवेकचूडामणि
Śloka 237
236
All
238
Glossary
विवेकचूडामणि
Śloka 237
100%
Commentary — व्याख्या
1
अतः स्वप्नवत् सदा उपलंभाभावात् जगत् परात्मनः ब्रह्मणः पृथक् नास्ति
2
व्यवहारदशायां पृथग्घटादिरूपेण प्रतीतिः गुणाहिवत् मृषा
3
तथैव रज्जुः, सर्पः, रज्ज्वामारोपितः यथा मृषा तथा मृषेत्यर्थः ।
4
अर्थकियाकारित्वाभावादपि मृषात्वमाह आरोपितस्येति ।
5
आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थकियाकारित्वमिति यावत् अस्ति किम् ? नास्त्येवेति भावः ।
6
तहिं कुतः प्रतीतिरत्र आह अधिषितिं,
7
अधिष्ठानमाभाति तथा भ्रमेण निह भ्रमस्थले प्रयोजनगवेषणा विफल-प्रवृत्तेः सिद्धत्वात् ॥२३७॥
236
All
238
En