विवेकचूडामणि
Śloka 236
235
All
237
Glossary
विवेकचूडामणि
Śloka 236
100%
Commentary — व्याख्या
1
सत्यस्य सदा भानमावश्यकं यथाऽत्मनः ।
2
यदि विश्वंजगत् सत्यं भवेत् सुषुप्त्यवस्थायां उपलभ्यतां ।
3
यत् यस्मात् किंचिदपि नोपलभ्यते "न किंचिदवेदिषम्" इति स्मृतेः
4
अतः स्वप्नवत् जागरे अनुपलभ्यमानः स्वप्नः यथा असत् तथा मृषेति ।
5
नतु शाविषाणवदसत्वं किंतु दृष्टनष्टस्वरूपत्वात् मिथ्या इति भावः ॥२३६॥
235
All
237
En