विवेकचूडामणि
Śloka 243
242
All
244
Glossary
विवेकचूडामणि
Śloka 243
100%
Commentary — व्याख्या
1
तत्त्वमसीयत्र तत्पदेन त्वंपदेन च जगत्कर्तृत्वादिविशिष्टत्वेन जाग्रदाद्यवस्थाविशिष्टत्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः
2
इत्थं पूर्वोक्तप्रकारेण शोधितयोः ।
3
तत्त्वमसीति श्रुत्या तयोः केवलचिन्मात्रयोः एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये
4
एतादृशोः भेदे मानाभावात् सम्यक्प्रतिपाद्यते, तदैक्यमिति उत्तरेण संबंधः ॥२४३॥
242
All
244
En