विवेकचूडामणि
Śloka 244
243
All
245
Glossary
विवेकचूडामणि
Śloka 244
100%
Commentary — व्याख्या
1
किंचज्वल-सर्वज्ञत्वविषये दृष्टान्तः खद्योतभान्वोरिति अतिपरिच्छिन्नापरिच्छिन्नप्रकाशवत्त्वात् ।
2
नियमनियामकभावविषये राजभृत्ययोरिति दृष्टान्तः भीष्मासादित्यादिश्रुतेः ।
3
आनन्दलेशापारानन्द-विषये कूपांबुराशोयोरिति दृष्टान्तः
4
एकदेशगतत्व-सर्वगतत्वविषये परमाणुमेवोर्-रिति ।
5
एवं अन्योन्यविरुद्धौ ऐक्यायोग्यौ यौ धर्मिणौ तयोः अन्योन्यविरुद्धधर्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते वाचितत्त्वात् ।
6
किंतु लक्षितयोः लक्षणावृत्या बोधितयोः निगद्यते उपक्रमादिलिंगावगत-तात्पर्यानुसारेण कथ्यत इत्यर्थः ॥२४४॥
243
All
245
En