विवेकचूडामणि
Śloka 250
Glossary
View Book
Verse
श्लोकः
Expand all
1
स देवदत्तोयमितीह चैकता
2
विरुद्धधर्माशमपास्य कथ्यते ।
3
यथा तथा तत्त्वमसीति वाक्ये
4
विरुद्धधर्मानुभयत्र हित्वा ॥२५०॥
Śloka 249
All Ślokas
Commentary
व्याख्या
Expand all
1
सः देवदत्त इतीह तच्छ्रव्यस्य तद्देशतकालवृत्तित्वविशिष्टोर्थः
2
अयमिति इदंपदस्य तद्देतत्कालवृत्तित्तकालविशिष्टः अर्थः ।
3
तत्र विशेषणयोः अत्यन्तभिन्नत्वात् विशिष्टैक्यमनुपत्तिम् ।
4
कालान्तरे देशान्तरेस्थितः देवदत्तः इदानींमात्राभातः इत्यर्थस्य ज्ञातत्त्वात्
5
व्यतिमात्र-विषयक-बोधतालये ऩॊच्चरितादस्मात् वाक्यात् स्वघटकतदिदंपदाभ्यां उभयत्र विरुद्धधर्मान् तद्देतत्कालालक्षपं अपास्य हित्वा
6
देवदत्त-रूपविशेष्यांशानमात्रुपस्थाप्यते ।
7
तत्र भेदो नास्तीति एकता यथा कथ्यते
8
तथा तत्त्वमसिवाके कारणोपाधि-कार्योपाधि-प्रत्यक्त्व-परोक्षत्व-परिपूर्णत्व-सिद्धीत्वतादिरूपान् विरुद्धधर्मान् उभयत्र हित्वा
9
चिन्मात्रतया ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तुपरिच्छेदशून्यत्वं बुधैः विद्भिः परिचीयते अनुभूयत इत्यर्थः ।
10
एक एवोभयप्रकार उपदिष्य अन्यत्रादिशित,
11
एवं महावाक्यशतेन ब्रह्मात्मनोरैक्यं तदर्थः अखण्डभावः कथ्यत इति ॥२५०॥
Śloka 249
All Ślokas