विवेकचूडामणि
Śloka 249
Glossary
View Book
Verse
श्लोकः
Expand all
1
ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये ।
2
नालं जह्त्या न तथाऽजहत्या किंतुभ्यार्थैकतयैव भाव्यम् ॥२४९॥
Śloka 248
All Ślokas
Śloka 250
Commentary
व्याख्या
Expand all
1
तत इति । ततः यतः दृश्यव्यपोहानन्तरं शब्दादेव तयोः एकत्वं ज्ञेयं
2
तत्स्मात्कारणात् तयोः शुद्धौ, लक्षणया तयोरर्थस्मृत्यनुकूलपदपदार्थसंबन्धरूपया वृत्त्या सुलक्ष्यौ सम्यगुपस्थानीयौ ।
3
अत्र स्वात्मनिरूपणे "मानान्तरोप्रोधात् मुख्यार्थस्याप्रिग्रहे जाते, मुख्यविनाकृतेर्यां वा वृत्तिसैव लक्षणा प्रोक्ता" इत्युक्तम् ।
4
प्रमाणान्तरविरोधवशात् मुख्यार्थस्य वाच्यार्थविषयकान्वयानुभोधानुपत्तौ सत्यामिति यावत्
5
मुख्यविनाकृते वाच्यसंबद्धेर्या वा वृत्तिः सा लक्षणा इत्यर्थः ।
6
प्रकृते विशिष्टयोरैक्यं वाघितं इति तत्त्वंपदाभ्यां शुद्धौ आत्मानौ लक्षणीयौ
7
तत्र विशिष्टतादान्यसंबन्धस्य सत्त्वात् लक्षणा शक्यसंबन्धरूपा निबंहिता ।
8
तदपि तत्र स्पष्टमुक्तं "देहेन्द्रियादिधर्मानात्मन्यारोपण-भ्रान्त्या इत्युक्त्वा त्वंपदस्य वाच्योर्थः देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन । प्रतिभाति योबोधः प्रोक्तोसौ त्वंपदस्य लक्ष्योर्थः"
9
वेदावसानवाचा संवेद्यं सकलजगदुपादानं सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योर्थः
10
विविधोपाधिविमुक्त विवासातीतं विशुद्धमद्वैतं अक्षरमनुभवेद्यं चैतन्यं तत्पदस्य लक्ष्योर्थः इति ॥
11
"प्रत्यक्वपरोक्षत्वे परिपूर्णत्वे च सिद्धीत्वं इतरेतरं विरुद्धं ततइह भवितव्यमेव लक्षणया" इति च ॥
12
त्वंपदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वं अहमिति प्रतीत्यभावात्
13
एवमीश्वरस्य परिपूर्णत्वं जीवस्य सिद्धीत्वं अल्पत्वमिति यावत् ।
14
इतरेतरं विरुद्धं कथं तयोरैक्यान्वयः इतिमानान्त्रोपरोधे प्राप्ते उपक्रमादिलिंगावगृहत-तात्पर्यानुपत्या शुद्धौ लक्षणया बोधनीया ।
15
तत्र लक्षणा त्रिविधा, जह्वल्लक्षणा अजह्वल्लक्षणा जह्वदजह्वल्लक्षणेति ।
16
तयोरखण्डैकरसत्वसिद्धये संसगिविषयक-प्रमाविषयत्वसिद्धं इत्यर्थः ।
17
उक्तं हि वाक्यवृत्तौ "संसगो वा विशिष्टो वा वाक्यार्थों नात्र संमतः अखण्डैकरसत्वेन वाक्यार्थों विदुषां मतः" इति
18
तत्र जह्वल्लक्षणा नाम स्वात्मनिरूपणे लक्षिता "निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेज्त्यार्थे" जहतीति लक्षणा स्यात् गंगायां घोषविद्ह न ग्राह्या" इति ।
19
वाच्यार्थविषयिणी लक्ष्यार्थविषयिणी या उपस्थितिः तादृशोपस्थितिजनिका शक्यसंबन्धरूपा या वृत्तिः सा जह्वल्लक्षणा ।
20
यथा "गंगायां घोषः" इत्यत्र घोषपदवाच्याभिप्रयोः तीरे प्रवाहसंयुक्त-तीरबोधकत्वं न संभवतीति गंगापदस्य प्रवाहसंयुक्त-तीरबोधकत्वं ।
21
तत्रापि यदि गंगातीरे घोषइति बोधोभिप्रेतः तदा अजह्वल्लक्षणं ।
22
तीरेघोष इति चेत्, बोधे तज्जनकोपस्थितौ च वाच्यार्थस्यावेशात् जह्वल्लक्षणा ।
23
प्रकृते नालं जह्त्या इत्युक्तं वाच्यैकदेशस्य विशेष्यस्य संग्रहात् "निखिलमपि वाच्यमर्थं त्यक्त्वा" इत्युक्त्या अखण्डैकरसत्वसिद्धये अजह्वल्लक्षणयापि नालं न पर्याप्तं ।
24
तथाहि अजह्वल्लक्षणा नाम वाच्यार्थविषयिणी लक्ष्यार्थविषयिणी च या उपस्थितिः तज्जनक-शक्यसंबन्धरूपा वृत्तिः ।
25
तदुक्तं "वाच्यार्थमत्यजन्यया वृत्तेः प्रवृत्तित्रयार्थे" इयमजहती कथिता शोणो धावत इत वा ग्राह्या" इति
26
शोणशब्दस्य रक्त-गुणवत् दग्धकत्वान्वयासंभवात् तद्गुणविशिष्टे अश्वे लक्षणा ।
27
तत्र शोणगुणविशिष्टस्वविषयकोपस्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात् इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति ।
28
प्रकृते विशेषणनाशस्य वाच्यार्थस्य परित्यज्यमानत्वात् नाजहल्लक्षणा
29
किंतु उभयार्थैकतयैव भाव्यम् जह्वदजह्वल्लक्षणया तयोरखण्डैकरसत्वसिद्धये ।
30
तल्लक्षणमुक्तम् "जह्वदजहतीति सा स्यात् या वाच्यार्थैकदेशमपाह्य बोधयति चैकदेशं सोऽयं द्विज इति वदाशयेनाम्" ।
31
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्षपरोक्षदेशाद् द्विजमात्रलक्षकत्वात् कथयत्यैक्यं पदार्थयोरुभयोः ।
32
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्षपरोक्षतादिनि ।
Śloka 248
All Ślokas
Śloka 250