विवेकचूडामणि
Śloka 26
25
All
27
Glossary
विवेकचूडामणि
Śloka 26
100%
Commentary — व्याख्या
1
एतादृश-साधनगण-मण्डितस्यैव मुमुक्षुत्वं सम्भवति नान्यस्येतीदानीं मुमुक्षुमाह अहंकारादीति।
2
"अन्तःकरणमेतेषु चक्षुरादिषु वर्त्मनि। अहमित्यभिमानेन तिष्ठत्याभास-तेजसा। स विज्ञेयः" इत्युक्त्या चित्रप्रतिफलनोपेत-मन्तःकरणं अहंकारः।
3
यद्वा भोक्ता जीवोहंकारः आनन्दमयकोश-नामा, स्वात्मनिरूपणे "मुक्तिगते स्मसुखलेशैः अभिमनुते सुखीभवामीति। आनन्दकोशनामा सोहंकारः कथं भवेदात्मा" इत्युक्तत्वात्।
4
तस्यापज्ञानकल्पत्वं च गौणं वक्तुं शक्यम्।
5
तथा आनन्दकोश-प्रभृतिविज्ञानमय-मनोमय-प्राणमयाचात्मात् बन्धान् स्वरूपसाक्षात्कारात्गात्मत्वेन मन्यमानान् स्वस्वरूपावबोधेन मोक्तुं पुनस्तर यथाहृता न स्यात् तथा त्यक्तुं वाञ्छितमित्यर्थः।
6
या इच्छा सा मुमुक्षुता।
7
स्वस्वरूपावबोधे हि "यत्र तस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्" इति श्रुत्या परिचिन्तितस्य करोष्यापि भानाभावेन कोश-पंचकात्मक-बन्धनिवृत्तिरत्यन्तमिति भावः॥२८॥
8
इयं तावत् मुमुक्षुता त्रिविधा मन्दा मध्यमा प्रवृढा चेति।
9
मोक्षस्य नित्यसुखरूपत्वेपि सांसारिक-वासना-वासितान्तःकरणानां मोक्षेच्छेव दुर्लभा।
10
अध्यात्मशास्त्र-श्रवणकाले जातासा न कार्यमादधाति।
11
यदा पुरुषः श्रवणान्तर-जातविवेकेन विषयेषु सांसारिकेषु दोषान् दर्शं दर्शं तत्र वैराग्यं लब्धा विधिवच्छास्त्रस्य सर्वकर्माणि, विचारार्थं गुरूपसदनादौ प्रवर्तते तदा, अध्यात्मशास्त्रश्रवणकाले जाता तात्कालिकयेव मुमुक्षुता मन्देति नाहमहं मध्यमत्वं प्राप्नोति।
12
यथा यथा तीव्रं वैराग्यं मनश्चोपशान्तं समाधित्सति गुरुश्चासिमनसीदति "क्षिप्रमयं तरतु भवाभिमिति" तदा पुरुषः नित्यसुखरूप-मोक्षादन्यञ्च कामयते तत्र विलम्बं च न सहत इति प्रवृढ-मुमुक्षः मुख्याधिकारी भूत्वा क्षिप्रं लभते फलमित्याह। मन्देति।
25
All
27
En