विवेकचूडामणि
Śloka 25
Glossary
View Book
Verse
श्लोकः
Expand all
1
सम्यगासस्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा।
2
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम्॥२७॥
Śloka 24
All Ślokas
Śloka 26
Commentary
व्याख्या
Expand all
1
यद्यपि स्वलक्ष्ये नियतावस्थारूप-शमापेक्षया भेदो न लक्ष्यते इन्द्रिशे समाधाने, "तथापि मुहुर्मुहुः दोषदृष्टचा विषयेष्यो विरज्य स्वलक्ष्ये नियतावस्था" इत्यनेन "यतो यतो निश्चरति मनश्चंचलमस्थिरम्। ततस्ततो नियमयेत्तु आत्मन्येव वशं नयेत्।" इति गीतोक्तरीत्या शमावस्थायां प्रयत्न-विशेषोपेक्ष्यते संकल्प-विकल्पात्मकस्य मनसः स्थिरीकरणे।
2
अत एवात्र अध्यवसायात्मिकायाः बुद्धेः शुद्धे ब्रह्मणि सम्यगासस्थापनं सर्वदा इत्यनेन-संकल्प-विकल्प-विनिर्मुक्तवं अन्तःकरणस्य प्रकृते कथितं भवति।
3
अत एव मनःशब्दं विहाय निर्णयात्मक-वृत्तिमद्बुद्धि-शब्दः प्रयोजिः।
4
तत्रापि शुद्धे शुद्धे ब्रह्मणीति निर्गुणं कथ्यते सर्वोपाधिविनिर्मुक्तम्।
5
शमनिरूपणावसरे नियतावस्थेत्यनेन सगुणे नियतावस्थानेपि शान्तत्वं मनसो वक्तुं शक्यम्।
6
शम इति साधनं कथ्यते, समाधानं तस्य फलं तस्यैव परिपाक इति यावत्।
7
लोके बालका विशेषतो रुदन्ति चेतु तदिष्टं दत्वा समादधते जनाः, तदुत मनसो यथेष्टं विषयमार्ग-संचरणं न समाधानमित्याह न तु चित्तस्य लालनमिति।
8
यद्वा "शुभाशुभाभ्यां मार्गाभ्यां वहन्ती नियतासनिरः। पौरुषेणप्रयत्नेन योजनीया शुभे पथि"।
9
अञ्चभेपु समाविष्टं शुभेभेवावतार्षयेत्। स्वमन-पुरुषार्थेन बलेन बलिनां वर। अशुभाच्चालितं याति शुभं तस्मादपीतरत्। जन्तोश्चित्तं तु शिशुवत् तस्मात्चाल्येद्बलात्। समतासाच्चलनेनागु न ड्रागित शनैःशनैः। "पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम्" इति वासिष्ठरीत्या चालनं लालनं वा शमादिसाधनत्वेन पूर्वमपेक्ष्यते।
10
न तु फलीभूतसमाधानावस्थायां, तदाभ्यासं बिनापि शमादिसंपादनकाले कृतप्रयत्नेनैव क्षीण-बाह्यवासनस्य मनसः सगुणात्रच्यावनमात्रस्य निर्गुणे स्थापयितुमपेक्षितत्वात् इति॥२७॥
Śloka 24
All Ślokas
Śloka 26