विवेकचूडामणि
Śloka 30
29
All
31
Glossary
विवेकचूडामणि
Śloka 30
100%
Commentary — व्याख्या
1
स्वस्वरूपानुसन्धानमिति निदिध्यासनमुच्यते। तस्यैव साक्षात्कारं प्रति साक्षात्कारणत्वात्।
2
श्रुत्याचार्योपदेशेन स आत्मा तत्वमसीति श्रुतः। योर्थः तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसन्धानं तद्भावनाधारा विजातीय-प्रत्यतिरस्कृत-सजातीय-प्रत्यय-स्वाहारूपा साक्षात्करे असाधारणं कारणमिति भावः।
3
शमादीनां विचाराढरक-निदिध्यासनद्वारा कारणत्वं ज्ञाते, अस्य तु साक्षादिति भावः।
4
अत एव मोक्षस्य कारणं अभिव्यंजकं यज्ञानं अह तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी साक्षात्कारणत्वादित्युक्तम्।
5
सा च सामग्री विवेकादिनिदिध्यासनान्ता॥३२॥
6
अपरेषां मतमाह।
29
All
31
En