विवेकचूडामणि
Śloka 31
Glossary
View Book
Verse
श्लोकः
Expand all
1
उक्तसाधनसंपन्नः तत्वजिज्ञासुरात्मनः ।
2
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥३४½॥
Śloka 30
All Ślokas
Śloka 32
Commentary
व्याख्या
Expand all
1
उक्तसाधनसंपन्नः उक्तानि विचारसाधनत्वेन कथितानि यानि विवेकादीनि साधनानि तैः संपन्नः युतः, पुमानिति शेषः।
2
आत्मनः स्वस्य तत्वं ज्ञातुमिच्छुः स्वयाथात्म्यज्ञानकामः उपसीदेत् शरणं गच्छेत्, कं ? गुरुमुपदेशकम्।
3
कीदृशम् ? प्राज्ञं ब्रह्मसाक्षात्कारः। प्राज्ञता ब्रह्मसाक्षात्कारः "ब्रह्मात्मनोश्शोधितयोः-रेकभाववगाहिनी। निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते" इति वक्ष्यमाणत्वात्।
4
सास्यास्तीति प्राज्ञः स एव प्राज्ञः, तं ब्रह्मनिष्ठमित्यर्थः।
5
तेन स्वस्य फलमाह। यस्माद्गुरोः सकाशात् बन्धविमोक्षणं बन्धस्य अज्ञान-कल्पितदेहान्तस्य विमोक्षणं विशेषेण परित्यागः इति।
6
तादृशगुरूपसदने तदुपदेशजन्य-स्वयाथात्म्यज्ञानेन बन्धनिवृत्तिरूपमोक्ष-सिद्ध्यति इति भावः ॥३४॥
Śloka 30
All Ślokas
Śloka 32