विवेकचूडामणि
Śloka 39
38
All
40
Glossary
विवेकचूडामणि
Śloka 39
100%
Commentary — व्याख्या
1
वर्षासु वृष्टिबाधा, ग्रीष्मे तापः, शरदि प्रारम्भे सुखं, नमासद्ये कार्तिकान्तिम-भागस्य यमदंष्ट्रात्कीर्तिनात्, हेमन्त-शिशिरयो-र्शैत्यं, मुगविच्चकुसुमाकरः वसन्तुः काल्स्त्येन लोकस्य सुखं जनयतीति वसन्त-वदित्युक्तम् तदा वर्षा-ताप-शीतरोगादीनामभावात्।
2
स ऋतुः यथा सुखमेव जनयति तथा लोकस्य सुखमेव तन्वानाः शान्ताः निर्विकार-मनसकः अत एव महान्तः, अपरिच्छिन्नब्रह्म-साक्षात्कारवन्तः, अत एव तादृशसद्ब्रह्माभेदेन सन्तः "ब्रह्मवित् ब्रह्मैव भवतीति श्रुतेः।
3
स्वयं भीमः भयंकरः यः भवार्णवः संसारसागरः तं तीर्णः असंसारिण इत्यर्थः।
4
स्वस्य आप्तकामत्वेन प्रयोजनाभावात् अहेतुना हेतुं विना, अन्यानपि तारयन्त इति भावः।
5
हेतुं विना कथं तेषां तत्तारणे प्रवृत्तिः निर्निमित्तैव इति शंकायामाह अयं इत्यादिना।
6
निहि स्वभावे कारणं गवेषणीयम्। निहि शंकायां माधुर्यं किंनिमित्त-मिति प्रश्नो युज्यते तत्र तस्य स्वाभिकत्वादित्यभिप्रायः।
7
परश्मापनोदप्रवणं परेषां यश्रमः दुःखं तस्यापनोदः निवारणं तत्र प्रवणं भावप्रधानो निर्देशः प्रवणभावः प्रवणता सक्ता वैयग्रमित्यर्थः।
8
इति यत् अयं स्वभावः महात्मनां स्वत एव। परप्रेरणादिकं तत्र नापेक्षत इत्यर्थः।
9
तत्र अर्क-कर्केश-प्रभाभितप्तां अर्कस्य सूर्यस्य या कर्कशा तीक्ष्णा प्रभा प्रकाशः तया अभितः तप्तां क्षितिं भूमिं, सुधांशुः अमृतकिरणश्चन्द्रः एषः प्रसिद्धः समीपवर्ती, स्वयं परराप्रेरितः अवति रक्षति, किलेति प्रसिद्धौ ॥४०॥
10
एवं विनीतवेषेण तदनुसारिण्या वाचा तदभिव्यंजितभक्त्याच आर्तः अनन्यशरणोयं सर्वथा रक्षणीय इतिभिप्रायेण स्वाभिमुखं स्वात्मानं सानुग्रहानुकम्पामृत-वर्षितकटाक्षैः पावयन्तं देशिकोत्तमं स्वबन्धमोचकोप-देशाय धन्येन पार्थयते।
11
ब्रह्यानन्तमच्छ ब्रह्यानन्तदेत्यादिना।
38
All
40
En