विवेकचूडामणि
Śloka 38
Glossary
View Book
Verse
श्लोकः
Expand all
1
दुर्वार-संसार-दवाग्नितप्तं दोध्यमानं दुरदृष्टवातैः ।
2
भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्दहं न जाने ॥३८॥
Śloka 37
All Ślokas
Śloka 39
Commentary
व्याख्या
Expand all
1
संसार एव दवाग्निः सर्वांशो व्याप्य-तापहेतुत्वात् वनानलः, सः भवदीय-सत्पदेशजनितज्ञानं विना न वारितुं शक्य इति दुर्वारः वारितुं स्वयमशक्यः इति दुर्वारः संसारदवाग्निः सः तत्त्वम् दध्ँ।
2
वनानलस्य वातसहितत्वे बह्वाप्य तापकत्वं प्रसिद्धं। तथा दुरदृष्टवातैः दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवैः तैः दोध्यमानं मुहुर्मुहुः कम्प्यमानं।
3
अनुकूलश्चेद्वात् एनमन्यत्र नयेत्, प्रतिकूलस्तु वातः अग्नि पातयत्यस्मिन् अस्मिन्।
4
अतः दवाग्नितप्तस्य अमृतवर्षणे पूर्वं दृष्टः अतिकारुण्यसुधाभिवृष्टिः विशेषणं दत्तम्।
5
तत्र बहुव्रीहि-मक्त्वा दृष्ट्या करणेन अतिकारुण्यसुधाभि-वृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते।
6
तेन दवाग्नितप्तं मां मृत्योः परिपाहीत्यन्वयः। इत्थं च स्वकीय-कटाक्षदृष्ट्या ऋज्वया मामुद्धरेति पूर्वमन्वयः। मां मृत्योः परिपाहीत्युत्तरान्वयः।
7
मृत्योर्भीतं, प्रपन्नं शरणागतं, मां मृत्योः परिपाहीत्यभयत्र-अन्वयः।
8
भवद्ग्रहादात्मज्ञाने सति मम शरीरोत्क्रमणरूप-मरणं नसंभवतीति भावः। "तत्तस्य प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते" इति श्रुतेः।
9
तथाच "ध्रुवं जन्म मृतस्य च" इत्युक्त-त्वात् मरणाभावे जन्माभावस्य सिद्धत्वात् जन्ममरण-प्रवाहरूपसंसारात्मुक्तो भवामि इति भावः।
10
स्वस्थान्यशरणत्वं गुर्विभिमुख्याय प्रकटयति शरण्यमन्यद्दहं न जाने इति। भवदन्यं शरण्यं मद्रक्षकं यत् यस्मात् अहं न जाने। अतोऽन्यशरणोयं नोदासितव्य इति भावः ॥३८॥
Śloka 37
All Ślokas
Śloka 39