विवेकचूडामणि
Śloka 47
46
All
48
Glossary
विवेकचूडामणि
Śloka 47
100%
Commentary — व्याख्या
1
वेदानामन्ताः वेदान्ताः उपनिषदः तासां योर्थः तद्विचारेण,
2
उपक्रमोपसंहारादि-षड्विध-तात्पर्यलिंगैः प्रतिपाद्यमानः सजातीय-विजातीय-स्वगतभेदरहितः नित्यशुद्ध-बुद्धमुक्त-स्वभावः परमात्मा तस्य विचारेण तन्निर्णयानुकूलमानस-व्यापारेण,
3
उत्तमं ज्ञानं संशयभावनाध-शवलितं ज्ञानं निर्णयः जायते ।
4
तेन निर्णयेन आत्यन्तिक-संसारदुःखनाशः स्वसमानाधिकरण-दुःखप्राभावसमानकालिकः दुःखनाशः,
5
अनु तन्निर्णयानुपदं भवति भविष्यतीत्यर्थः ॥४७॥
46
All
48
En