विवेकचूडामणि
Śloka 48
Glossary
View Book
Verse
श्लोकः
Expand all
1
श्रद्धाभक्ति-ध्यानयोगान् मुमुक्षोः मुक्तेहेतून् वक्त साक्षाच्छ्रुतेर्गीः ।
2
योवा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥४८॥
Śloka 47
All Ślokas
Śloka 49
Commentary
व्याख्या
Expand all
1
तत्र श्रद्धा-गुर्वेदान्त-वाक्यविश्वासः शास्त्रस्य गुर्वाक्यस्येत्यादिना लक्षिता ।
2
भक्तिः स्वस्वरूपानुसंधानं निदिध्यासनं । ध्यानं, "तत्र प्रत्यैक-तानता ध्यानम्" इति सूत्रितं
3
"सम्यग्दर्शनाय बुद्धेः शुद्धेः अर्हाणि सर्वेति" लक्षितं समाधानं । योगः "योगश्चित्तवृत्तिनिरोधः" इति सूत्रितः ।
4
तत्र श्रद्धा सर्वत्र हेतुः । भक्तिध्यानयोगेगानां मध्ये उत्तरोत्तरस्य पूर्वंपूर्वंहेतुत्वं ।
5
चित्तवृत्तिनिरोधे समाधानस्य तस्मिन् श्रुताचार्योपदेशमनु स्वस्वरूपानुसंधानकरणप्रतिदिध्यासनकारणत्वात्
6
यद्धा या चित्तायामिति धातोः युक्तिभरनुचिन्तनरूपं मननं निदिध्यासन-साक्षाकारणमुच्यते ध्यान-शब्देन,
7
ज्ञानप्रतिबन्धक-सकलदुरित-निवर्तकं सगुणध्यानं वा । अत्रोभय-त्रापि चित्तवाह्यवृत्ति-निरोधरूप-योगस्य हेतुत्वं अस्त्येव ।
8
यद्धा युज्यते संभवते आत्मसाक्षात्काराणनेनेति योगः, भक्तिश्चासौ योगः, ध्यानं च तथोः इति भक्तियोगः ध्यानयोगः इति वा संबन्धः ।
9
मुमुक्षोः पुरुषस्य मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गीः "श्रद्धाभक्ति-ध्यानयोगादेवेहि" इति कैवल्योपनिषत्, साक्षादिति प्रत्यक्षश्रुतिरित्यर्थः ।
10
यो वै पुरुषः एतेष्वेव श्रद्धाभक्ति-ध्यानयोगेषु तिष्ठति, श्रद्धालुः भक्तियोगो ध्यातू योगी च सदा भवति,
11
अमुष्य अदस्स्त्व-प्रयोगेण तादृशाधिकारिणः दुर्लभत्वं सूचयति अदसस्तु विप्रकृष्ट-मित्युक्तेः ।
12
तस्य अविद्याकल्पितात् अज्ञानमूलकात् देहबन्धात् अहंकारादि-देहबन्धात्, मोक्षः निवृत्तिः सिध्यत्येवेति शेषः ।
13
योवा इत्यत्र वै इत्यवधारणे, संन्ते सम्बन्धनीयाः । एतेष्वेवेत्यत्र अवधारणं उक्तसाधनान्य-निष्ठत्वं वारितम् ॥४८॥
Śloka 47
All Ślokas
Śloka 49