विवेकचूडामणि
Śloka 49
Glossary
View Book
Verse
श्लोकः
Expand all
1
अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः ।
2
तयोर्विवेकोदित-बोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥
Śloka 48
All Ślokas
Śloka 50
Commentary
व्याख्या
Expand all
1
परमात्मनस्तव अज्ञानयोगात् अनाद्यविद्यासंबन्धात्, अनात्मबन्धः अनात्मसु स्थूलसूक्ष्म-कारणशरीरेष्वात्मत्वबुद्धिः ।
2
तत एव जन्मजरामरण-सुखदुःखजडत्वादि-धर्माध्यासरूपा संसृतिः ।
3
तयोः आत्माऽनात्मनोः विवेकोदितबोधवह्निः विवेकः भेदज्ञानं तेन उदितो जातः बोधवह्निः साक्षात्काररूपाग्निः
4
समूलं अज्ञानरूपबीजोपेतं अज्ञानकार्यं अहंकारादि-देहान्तयोजन्मजरामरणादिरूप-संसारं च प्रदहेत् प्रक्षेपणं भस्मीकुर्यादित्यर्थः ।
5
तथाच संसृतिकारणं अनात्मबन्धः, तत्र कारणं तवाज्ञानयोगः, तन्निवृत्त्युपायः परमात्मबोधः तत्र कारणं आत्मानात्मविवेकः इति संग्रहेणोक्तम् ।
6
तेन वेदान्तविचारजन्योत्तमज्ञानस्य संसारदुःखनाशकत्वविषये उपपत्तिः प्रदर्शिता आज्ञानिकस्य बन्धस्य ज्ञानादेव निवृत्तिः नाग्यत इति ॥४९॥
Śloka 48
All Ślokas
Śloka 50