विवेकचूडामणि
Śloka 51
Glossary
View Book
Verse
श्लोकः
Expand all
1
को नाम बन्धः कथमेष आगतः ।
2
कथं प्रतिष्ठास्य कथं विमोक्षः ।
3
कोसावनात्मा परमः क आत्मा ।
4
तयोर्विवेकः कथमेतदुच्यताम् ॥५१॥
Śloka 50
All Ślokas
Śloka 52
Commentary
व्याख्या
Expand all
1
प्रथमं बन्धस्वरूपं पृच्छति कोनाम बन्ध इति, तस्मिन् ज्ञाते तन्निवृत्तिः युक्तेन उपायेन सुकरेति ।
2
तत्र कारणं पृच्छति कथमेष आगत इति, तस्य स्थितौ हेतुं पृच्छति कथं प्रतिष्ठास्येति, अस्य बन्धस्य प्रतिष्ठा चिरकालं स्थितिः, कथं कुतः, केन हेतुनेति यावत् ।
3
विमोक्षः निवृत्तिः ।
4
गुरुणा परमात्मस्तवानात्मयोः परम आत्मा कः? तयोर्विवेकोदितत्येयुक्त्वात्, तयोः अनात्मपरमात्मनोः विवेकः भेदग्रहः कथं जायते, एतत्सर्वं उच्यतां दया विस्तरेण उच्यतामिति भावः ।
5
यद्यपि श्रीचरणसंग्रहोक्त्या परमात्मनो मे अज्ञानयोगात् अनात्मबन्ध इत्यागत इति किंचिज्ञातमिव, तयोर्विवेकोदित-बोधवह्निः-रज्ञानकार्यं समूलं प्रदहेत्यनेन कथं विमोक्ष इत्यपि किंचिज्ञातमिव ।
6
अथापि केवलं शब्दमात्रश्रवणेन किंचिज्ञातार्थस्यापि विस्तरेण तन्त्राकांक्षिर्णर्णयार्थं बन्धस्वरूपस्य तत्स्थितिहेतोः आत्मानात्मविवेकस्य च सुतरामज्ञातत्वात् एतत्सर्वं सम्यक्ज्ञात्विलत्वा कृतार्थनियतव्यः दीन-दीनोयं जनः इति भावः ॥५१॥
Śloka 50
All Ślokas
Śloka 52