विवेकचूडामणि
Śloka 52
Glossary
View Book
Verse
श्लोकः
Expand all
1
धन्योसि कृतकृत्योसि पावितं ते कुलं त्वया ।
2
यदिविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५२॥
Śloka 51
All Ślokas
Śloka 53
Commentary
व्याख्या
Expand all
1
धन्यः धनाहैः "न खलु धनत्वं जातिः यस्य यदिदण्टं तदेव तस्य धनं । तत्तदिव पामराणां आकिंचन्यं धनं विदुषाम्" इत्युक्तरीत्या विद्धिः धनत्वेन सम्मतदैराग्यभाग्य-भागसीत्यर्थः ।
2
तत्र हेतुः कृतकृत्योसीति, शास्त्रविहित-कर्मानुष्ठानेन शुद्धचित्तोसीत्यर्थः तदभावे संसारे वैराग्यानुत्पत्तेः ।
3
कृतानि कृत्यानि शास्त्रविहितानि येन स्वर्णधर्ममोचितानि कर्माणि साधनुष्ठाय चित्तं संशोध्य जातीत्वैराग्यः मुमुक्षुरसि ।
4
त्वया एतादृशेन ते कुलं वंशः, सर्वोपि पावितम् पवित्रीकृतः ।
5
उक्तं हि "कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च सेना । अपार-सश्चित्सुखसागरेस्मिन् लीनं परे ब्राह्मणि यस्य चेतः" इति ।
6
"स्नातं तेन समस्ततीर्थसलिले सर्वोपि दत्तावनी, यज्ञानां च सहस्रमिष्टमखिला देवाश्च संपूजिताः । संसारात्समुद्धृता-स्वपितरस्त्रैलोक्यपूज्योपयोसौ, यस्य ब्राह्मविचारणे क्षणमपि स्थर्थये मनः प्राप्नुयात्" इति सार्थः ।
7
यद्यपीदानीं तस्य ज्ञानं न जातं, अथापि गुरूपदेशश्रवण-समनन्तरमेव उत्तमाधिकारित्वात् स जातज्ञानो भवति ।
8
"परिपक्वमतेः सकृच्छ्रुतं जनयेदात्मविधयं श्रुतेर्वचः" इति माधवीयांकनिजये श्रीमदाचार्योक्तेः ।
9
"अत्यन्तैरायवतः समाधिः" इत्यत्रैव वक्ष्यमाणत्वाच्च ।
10
क्षिप्रमेव ब्राह्मविलीनमनसको भूत्वा कुलं भुवं च पावियिष्यतीति भावः ।
11
"न विषयभोगोभाग्यं, योग्यं खलूयत्र जन्तुमात्मपि । ब्रह्मोन्द्रदुर्मुखस्यं भाग्यं विषयेषु वैराग्यम्" इति वैराग्य-भाग्यत्वेन महापुण्यशालित्वात् इदानीमपि तस्य वंशपावितुत्वमस्त्येव ।
Śloka 51
All Ślokas
Śloka 53