विवेकचूडामणि
Śloka 56
Glossary
View Book
Verse
श्लोकः
Expand all
1
वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन ।
2
चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥
Śloka 55
All Ślokas
Śloka 57
Commentary
व्याख्या
Expand all
1
स्फुटः निर्मलः संशयलाघनास्कंदितः यो बोधः श्रवणमनन-निदिध्यासनजातः साक्षात्कारः तेन वस्तुस्वरूपं आत्मरूपवस्तुयाथात्म्यं परमात्माभिन्नत्वमिति यावत् स्वेनैव वेद्यं विषयीकर्तव्यं नतु स्वमिश्रेण केनचित्पण्डितेन वेद्यम् ।
2
शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता भंभूवुः तेन इतरेषां जातिमिल इति भावः ।
3
तत्रानुरूपं दृष्टान्तमाह तापवारकाह्लादजनक-चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यम् ।
4
अन्यैः चक्षुर्हीनैः अवगम्यते किम् ? यद्धा चक्षुष्मद्भिरप्यन्यैः स्वमिश्रैरवगम्यते चेत् एतदीयतापं हरित वा एतमाह्लादयति वा चन्द्रस्वरूपं ? तद्विदत्यर्थः ॥५६॥
Śloka 55
All Ślokas
Śloka 57