विवेकचूडामणि
Śloka 61
Glossary
View Book
Verse
श्लोकः
Expand all
1
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
2
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६१॥
Śloka 60
All Ślokas
Śloka 62
Commentary
व्याख्या
Expand all
1
परे कालत्रयाबाध्यत्वेन स्वयंप्रकाशानन्दरूपत्वेन च मिथ्याभूत-जडदुःखादिरूप देहादिमायान्त-सकल-कार्यकारणापेक्षया उत्कृष्टे,
2
तस्य सर्वस्याधिष्ठानभूते तत्त्वे निर्गुणे ब्रह्मणि,
3
अविज्ञाते असाक्षात्कृते सति, शास्त्राधीतिस्तु अर्थविचारपर्यन्तवेदान्ताध्ययनमपि निष्फला ।
4
यदर्थं विचारः शास्त्रविहितः तस्यालाभे निष्फलत्वं तत्र तत्कललाभपर्यन्तं यथोक्तफलशून्यत्वरूपं सिद्धमेवेति भावः ।
5
जन्मान्तरकृतसाधनवशात् गर्भेस्थेनापि वामदेवेनैव परे तत्त्वे विज्ञाते असाक्षात्कृतेपि अनन्तरं फलस्य निष्पन्नत्वात् शास्त्राध्ययनादिकं न कार्यमिति भावः ॥६१॥
6
यथा महारण्यं प्रविष्टः पुरुषः दिशमज्ञात्वा भ्राम्यति मुधा तथा केवलशब्दजालात्मक-शास्त्रस्यापि विक्षेपहेतुत्वात् तन्निष्ठत्वमपि परित्यज्य परमात्मसाक्षात्करवतो देशिकात् आत्मयाथात्म्यं साक्षात्कर्तव्यमित्याह ।
7
शब्दजालमिति ।
Śloka 60
All Ślokas
Śloka 62