विवेकचूडामणि
Śloka 60
Glossary
View Book
Verse
श्लोकः
Expand all
1
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।
2
वैदुष्यं विदुषांतद्वद्भुक्तये न तु मुक्तये ॥६०॥
Śloka 59
All Ślokas
Śloka 61
Commentary
व्याख्या
Expand all
1
वाग्वैखरी सरलपदवन्धविशिष्टा वाक्
2
शब्दझरी निरर्गलनिर्गलन्ती वाक् वाक्प्रयोगचातुर्यं शब्दप्रवाहः ।
3
शास्त्रव्याख्यानकौशलं शास्त्रस्य व्याख्यानं "पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना, आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम्" इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यम् ।
4
एतादृशं विदुषां वैदुष्यमपि, तद्वत् वीणावादनादिवत् भुक्तये प्रतिष्ठा-संपादनादिद्वारा भवति । मुक्तये तु न भवति ।
5
तत्र पूर्वोक्तसाक्षात्कार एव कारणम् इति भावः ॥६०॥
6
केवलं शब्दश्रवणमात्रेण मनोरञ्जकविषये कथयित्वा अर्थतोऽपि ये मनो रञ्जयन्ति तेषामपि पूर्वोक्तज्ञानाभावे नैव मुक्तिरित्याह ।
7
वाग्वैखरीति ।
Śloka 59
All Ślokas
Śloka 61