विवेकचूडामणि
Śloka 67
Glossary
View Book
Verse
श्लोकः
Expand all
1
आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृति,
2
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।
3
तद्वद्ब्रह्म-विदोपदेश-मननध्यानादिभिर्लभ्यते,
4
मायाकार्य-तिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
Śloka 66
All Ślokas
Śloka 68
Commentary
व्याख्या
Expand all
1
लोके तावत् भूमेरन्तःस्थापितः निक्षेपः हिरण्यादिनिधिः, प्राप्त-व्यश्चेत्
2
तं दृष्टवतां वा, अञ्जनविशेषादिना तं विज्ञाय सत्यं कथयतां वा आप्तानां उक्तिं श्रुत्वा
3
भुवं खनित्वा,
4
तत्र निधेरुपरि वर्तमानाच्छादक-शिलायाः अपकर्षणं अपसारणं कृत्वा प्राप्तव्यः ।
5
न तु निक्षेपः निक्षेप इति शब्दैः बहिः निर्गच्छति ।
6
तदिदमुक्तं यत्र निक्षेपः हिरण्यादिनिधिः स्वफले आधेये आप्तोक्तिः खननं भुवः तथा उपरिशिलापाकर्षणं तदनन्तरं स्वस्य स्वीकृतिं स्वीकारं च समपेक्षते, बहिश्शब्दैस्तु न निर्गच्छति,
7
तु-शब्द-व्यावधारणे नैव निर्गच्छतीति हि लोके प्रसिद्धं ।
8
तद्वत् शिलया भूम्या च आवृय-माणनिधिरिव, स्वं स्वकीयं अमलं स्वतःशुद्धं यथात्म्यं ब्रह्मोति यावत्,
9
मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्यैश्च अहंकारादिदेहान्तैः कोदैः[?], तिरोहितं प्रतिबद्धस्फुटभानं
10
ब्रह्मविदोपदेश-मनन-ध्यानादिभिर्लभ्यते,
11
आ समन्तादुपदेशः आोपदेशः ब्रह्मविदः आोपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्म-विदेति व्यस्तं पदं तृतीयान्तं, तेन उपदेशे तत्कर्तृत्वं लभ्यते ।
12
ब्रह्म-विकर्तृकोपदेशः श्रवणं मननं युक्तिभिरनुचिन्तनं ध्यानं निदिध्यासनं, आदि-पदेन निर्विकल्पकसमाधि-परिग्रहः । तैर्लभ्यते साक्षात्क्रियते ।
13
अत्र ब्रह्म-लाभः साक्षान्न्यात् अन्यान्यत्वात् लाभासंभवात् स्वानन्न्यत्वात् लाभासंभवात्
14
न दुर्युक्तिभिर्लभ्यते "नैषा तर्केण मतिरापनेया" इति श्रुतेः ।
15
श्रूयन्तुसारिण्यः युक्तयस्तु अभ्युपेयन्त एव ।
16
"पण्डितो मेधावी गान्धारानेवोपसंपद्येत" इति श्रुत्यैव सत्कर्तस्यामुपेतत्वात् ।
17
दर्शयति किल श्रुतिरेव महामात्स्यादि-दृष्टान्तेन असंगत्वमात्मनः सपूतिं प्रपञ्चपरित्यागेन सदात्मना संयुक्ते निज्पञ्चसदात्मत्वं,
18
कार्यकारणान्यत्वान्यायेन मुतिपण्डादृदृष्टान्तैः एक-विज्ञानेन सर्वविज्ञानं प्रपञ्चस्य ब्रह्मव्यतिरेकः,
19
ऊर्णनाभ्यादिदृष्टान्तैः अभिन्निमित्तोपादानत्वं, तस्करदृष्टान्तेन सत्याभिसंधस्य मुक्तिः मिथ्याभि-संधस्य बन्ध इत्यादिउक्तिजालं ।
20
अतः उक्तं दुर्युक्तिभिरिति ॥६७॥
Śloka 66
All Ślokas
Śloka 68