विवेकचूडामणि
Śloka 68
Glossary
View Book
Verse
श्लोकः
Expand all
1
तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये ।
2
स्वेनैव यतः कर्तव्यो रोगादेरिव पण्डितैः ॥६८॥
Śloka 67
All Ślokas
Śloka 69
Commentary
व्याख्या
Expand all
1
तस्मादिति । यस्मादेव स्त्रीयबन्धः अन्येन निवर्तितुं न शक्यते,
2
स्वेनापि साधनचतुष्टय-संपत्तिमता गुरुमुपसद्य
3
तन्मुखतः वेदान्तानू श्रुत्वा तदथं मत्वा निदिध्यास्य निर्विकल्पकनिष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य मोक्तव्यं
4
न केवलं बाह्यशब्दादिभिः मुक्तिः सिध्यति तस्मादित्यर्थः ।
5
सर्वप्रयत्नेनउक्तश्रवणादिप्रक्रमेण भवबन्धविमुक्तये सांसारिकादिवादि-दु देहान्तबन्धनिवृत्तये
6
ये तावत् बन्धमनुभवन्ति तैस्स्वैरेव, पण्डितैः बुद्धिमद्भिः,
7
रोगादेः रोगशूलिपासादेः, विमुक्तये यथा अगदस्वीकाराम्यव-हार-जलपानादिकं स्वयं क्रियते, एवं यतः कर्तव्यः ।
8
विवेकादिसाधन-चतुष्टयं स्थिरतमं संपाद्य सद्गुरुसंपदनीय इति भावः ।
9
अत्र सर्व-प्रयत्नेन, भवबन्धविमुक्तये यतः कर्तव्य इति द्वितारमुक्तत्वात् एवमर्थो युक्त इति भाति ॥६८॥
Śloka 67
All Ślokas
Śloka 69