विवेकचूडामणि
Śloka 8
Glossary
View Book
Verse
श्लोकः
Expand all
1
अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थ-सुखस्पृहः सन् ।
2
सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थ-समीहितात्मा ॥८॥
Śloka 7
All Ślokas
Śloka 9
Commentary
व्याख्या
Expand all
1
विद्वानिति नित्यानित्य-विवेकी कथित:
2
"ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आदलवन्त: कौन्तेय न तेषु रमते बुध:" ॥ इति गीतासु बुधशब्देनार्थस्य सूचितत्वात् ।
3
वैषयिकसुखस्य अनित्यत्वं द्योतयति बाह्यार्थेनेत्यर्थ: ।
4
अर्थानां बाह्यत्वेन आगन्तुकतया साविदिकवाभावात् तत्प्रयोज्यसुखाभिमान्वयापि तादृशत्वम् इति ।
5
अतो विवेकिना पुरुष धीरेण तत्र स्पृहा त्यक्तव्येति प्रयत्नप्रकारं प्रथमाह संन्यस्तबाह्यार्थ-सुखस्पृहस्निति ।
6
बाह्यश्च ते अर्थाश्च बाह्यार्था:, तै: सुखं बाह्यार्थसुखं,-तस्मिन् स्पृहा, बाह्यार्थसुखस्पृहा संन्यस्ता येन इति ।
7
ऐहिकामुष्मिक-फलमुक्त-कर्मणां निष्कामानुष्ठानेन निताताहानिर्मली-कृतस्वान्तत्वं उक्तप्रायम् ।
8
अविवेकिन: विषयलंपटस्य अस्तित्वमपि दुर्लभमिति सूचयति सलिति
9
"आचार्यवान्नुषो वेद" "आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापति" इति श्रुते:
10
अतीन्द्रियस्य आत्मकस्य गुरुं विनाऽधिगंगुमशक्यत्वात् पूर्वोक्तरीत्या महापुरुषसंश्रय: कर्तव्य: ।
11
"अस्ति ब्रह्मेति चेत्तं विद्यात्" "असंशय: स महान् भवति" इति सन्तमिति: कथन:
12
"अस्ति ब्रह्मेति चेद् विद्यात् सन्तमेनं ततो विदु:" "सदेव सोम्यदमग्र आसीत्" "यो वै भूमा तदमृतम् अतोऽन्यदार्तम्" "सत्यं ज्ञानमनन्तं ब्रह्म" "नासतो विद्यते भाव: नाभावो विद्यते सत: । उभयोरपि दृष्टोन्तस्तयनयो:स्तत्वदिशिभि:" इत्यादि-श्रुतिस्मृतिभ्य: कालत्रयावाध्यवास्तिकत्वस्य ब्रह्मण्येव सत्वात् ।
13
तदिभक्तस्य तथातत्त्वं "ब्रह्मविद्ब्रह्मैव भवति" इति श्रुत्या तदिभमत्वात् ।
14
तेन असद्ग्यायोजनाम्भ: सुतरां निवृत्तिभिमानत्वरूपा ब्रह्मनिष्ठा सूचिता भवति ।
15
"तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठं" "अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यं-मणुप्रमाणात्" इत्यादिश्रुतिभ्य:
16
तादृशदेव गुरो: संशयभावनादि-विरहित-शुद्धात्म-बोधस्य संभवात् ।
17
युक्तं ह्येतत्, लोकेष्यापि भ्रदृष्टो मार्ग: दृष्टतन्मार्ग: किल बोधनीय:, स्वयमेव कथंचिल्लब्धोपि, संशय: दृष्टतन्त्रै: किल निरसनीयो भवति ।
18
जन्मान्तरकृत-सुकृत-परिपाकवशात् स्वयं ज्ञातेयोपि पित्रानुशिष्योपि महानुभिवानो जनकस्य वैदेहस्य वचनात्किल ब्राह्मणि विश्वान्त्मानसोभुञ्च्छुक इति हि वासिष्ठादौ स्मर्यते ।
19
तथाच सद्रूपब्रह्मभिन्नत्वात् सद्रूपत देशिकस्य ।
20
अत एव महत् विवेचितकोशपंचकापरिच्छिन्नत्वम् ।
21
तदत्र शास्त्रोक्तसमस्त-सद्गुणमण्डितत्वं वक्ष्यते हि "श्रोत्रियोऽजिनोऽकामहतो यो ब्रह्मविदुत्तम: अहेतुकदयासिन्धु: बंधुरानमतां सताम् ॥ ब्रह्म्युपरतशान्तो निरिरन्धन इवानल:" इत्यादिगुणगणात् ।
22
शिष्येभ्यो ज्ञानं दशतीति देशिक:, तं समुपेत्य-यथाविधि उपसद्य तेन गुरुणा उपदिष्टो योऽर्थ:, ब्रह्मरूप: सन् आत्मा अन्तःकरणं येन तादृशस्सन् विमुक्त्यै प्रयतेत
23
इत्येनेनमुक्तिच्छां विना तत्र प्रयत्नासंभवात् मुमुक्षुत्वं ध्वनितम् ।
24
उपदिष्टार्थसमाहितात्मेत्यनेन सततं ब्रह्मसमाहितमानसस्य सर्वेकर्मसंन्यासे विनासंभवात्
25
विवेकिना विरक्तेन स्वकृत: सकल-कर्मसंन्यासपुरस्सरं ब्रह्मनिष्ठं गुरुमुपसद्य सर्वदा ब्रह्मविचार: कर्तव्य इत्युक्तं भवति ॥
Śloka 7
All Ślokas
Śloka 9