विवेकचूडामणि
Śloka 85
Glossary
View Book
Verse
श्लोकः
Expand all
1
अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
2
देहः परार्थीय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥
Śloka 84
All Ślokas
Śloka 86
Commentary
व्याख्या
Expand all
1
यत् स्थूलशरीरं परिहृत्य तादात्म्याध्यासात् दूरीकृत्य, अनादि-विद्याकृतबन्धमोक्षणं अनादिः या अविद्या मूलाविद्या, तया कृतः बन्धः अहंकारादि-देहान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति शेषः ।
2
अत्यन्तं स्थूलतया भासमाने अस्मिन्छरीरेऽहंतायाः परित्यागे अनात्मस्वरूपस्फुटयितव्यम् अयं देहः परार्थं इति ।
3
कृतव्यस्यानोयमंशः मज्जास्थीत्यादिश्लोके तस्मा-दनेक-पदार्थसंघातरूपत्वेन अनात्मनः अमुष्य पोषणे यः सज्जते स्वात्मानं विस्मृत्य अयमेवाहमिति विशेषतोभिमन्यते तद्दक्षणे च विशेषतो यतते ।
4
सः स्वं स्वात्मानं, अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातिनिजस्वरूपं करोतीत्यर्थः ।
5
येन निजस्वरूपभानेन मुच्यते तत्प्रतिबन्धक-स्थूलदेहाभिमानेन तदीयजन्ममरणादि-धर्मबन्तं स्वात्मानं मक्त्वा सर्वदा दुःखमनु-भवतीति भावः ॥८५॥
6
लोके तावत् नदीं तितीर्षवः नद्यम्प्लवमानं दृढं दारु धृत्वा स्वयं नद्यां तत्साहाय्येन अमज्जन्तः नदीं तितीर्णीति प्रसिद्धम् ।
7
न तु कदाचिदपि तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सित तेषां नद्यां मकरग्रस्तानां मरणं प्रसिद्धम् ।
8
तथा शरीरोपासनासक्तस्य आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः दृढो भूत्वा संसारमुद्धितो तं संभज्जयतीति भावेनाह । शरीरेति ।
Śloka 84
All Ślokas
Śloka 86