विवेकचूडामणि
Śloka 84
83
All
85
Glossary
विवेकचूडामणि
Śloka 84
100%
Commentary — व्याख्या
1
आदौ यदि तव मोक्षस्य वै इत्यवधारणे, मोक्षस्यैत्यर्थः । कांक्षा इच्छा, अस्ति विषयान् शब्दादीन्, विषं यथा हालाहलमिव, अतिदूरात् त्यज मनसापि मास्मार्षीरित्यर्थः ।
2
"अकुर्वन्नपि विध्युक्तं निषिद्धं परिवर्जयेत् । निषिद्धपरिहारेण विहिते लभते मितम्" इति सूत्रसंहितोक्तेः ।
3
उपादेयमाह तोपः संतोषः, दया करुणा, क्षमा तितिक्षा, आर्जवं ऋजुलिंचित्तता, प्रशान्तिः प्रकर्षेण शमः, दान्तिः बहिरिन्द्रिय-निग्रहः ।
4
तोपदयाक्षमार्जवानां अन्तःकरणधर्मत्वात् अशान्तस्य कुतस्मुखमिति गीतावचनात् शमाभावे संतोषादेरसंभवात् अत्र सर्वं शमाधीनमिति द्योतयितुं प्रशान्तीति प्रेत्यपसंगेहित शान्तिदत्तप्रयोगः ।
5
एताः नित्यं सततं, पीयूषवत् अमृतवत्, आदरात् अत्यन्तविश्वासेन भज सेव-स्त्वेत्यर्थः ॥८४॥
6
एवं मोक्षाशनत्वेन विषयवैराग्यं द्रढ्यित्वा तेषाशा यन्निर्बन्धना तस्मिन्शरीरे आदौ अनात्मत्वेन दिदर्शयिषते सक्तिः त्यक्तव्येत्याह तत्र सक्तिं त्यक्तायाः विषयवैराग्यं सुलभमित्यभिप्रायेण ।
7
अनुक्षणमिति ।
83
All
85
En