विवेकचूडामणि
Śloka 87
86
All
88
Glossary
विवेकचूडामणि
Śloka 87
100%
Commentary — व्याख्या
1
अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह। मोह इति॥
2
वपुरादिषु शरीर-कलत्र-पुत्रादिषु, मोह एव अहंमम-भाव एव, मुमुक्षोः महामृत्युः ।
3
यथा मृतः किञ्चिदार्यं न कर्तुं शकनोति एवं शरीरादिषु अहंमामिभामानवान् मुमुक्षुः मोक्षं संपादयितुं न शकनोतीत्यर्थः।
4
येन मोहो विनिजितः पूर्वोक्तहानादिभिः शरीरादौ परित्यक्तः स मुक्तिपदं मुक्तिमार्गं अर्हति स एव मुच्यत इत्यर्थः ॥८७॥
86
All
88
En