विवेकचूडामणि
Śloka 88
Glossary
View Book
Verse
श्लोकः
Expand all
1
मोहं जहि महामृत्युं देहदारसुतादिषु।
2
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम्॥८८॥
Śloka 87
All Ślokas
Śloka 89
Commentary
व्याख्या
Expand all
1
मुनयः मननशीलाः, यं देहादौ मोहं तदात्याभिमानं जित्वा, बहुकालाढृढमूलमपि देहिकदत्तयुक्त्या श्रुत्यवद्भेन च सुतरां परित्यज्य ।
2
तत् श्रुतिप्रसिद्धं विष्णोः परमं पदं, राहोःशिर इतिवत् अमेदे षष्ठी, व्यापकं (परिच्छेदत्रयशून्यं) सर्वोत्कृष्टं ब्रह्मरूपं स्थानं यान्ति अभेदेन भजन्ते, ब्रह्मैव भवन्ति मुच्यन्त इत्यर्थः।
3
तं देहदारसुतादिषु आदिपदेन मित्रधनादिग्रहः।
4
तत्र मोहं भ्रान्तिं तव महामृत्युं अत्यन्तं स्वस्वरूप-प्रच्यावनेन स्वादर्शनहेतुं जहि नाशय वेदान्तार्थविचारणेनेत्यर्थः॥८८॥
Śloka 87
All Ślokas
Śloka 89