विवेकचूडामणि
Śloka 90
Glossary
View Book
Verse
श्लोकः
Expand all
1
पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा।
2
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः।
3
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः॥९०॥
Śloka 89
All Ślokas
Śloka 91
Commentary
व्याख्या
Expand all
1
पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्पराशैः मिलितानि स्थूलानि सन्ति स्थूलशरीरहेतव इत्युक्तम्।
2
तत्र पञ्चीकरणं न शब्दतः स्पष्टं कथितं तदिदमुक्तं पञ्चीकृतेभ्य इति।
3
अत एव स्थूलेभ्यः पृथिवी-त्यादिव्यवहारयोग्येभ्यः भूतेभ्यः ।
4
तत्रापि देवतियङ्कमनुष्यादि-शरीरप्रभेदे बीजमाह पूर्वकर्मण इति।
5
पुष्यपापमिश्रानुसारेण देवादिशरीरोत्पत्तिरिति भावः।
6
इदं प्रत्यक्षसिद्धं, आत्मनो जीवस्य, भोगायतनं यदवच्छेदन भोगो जायते तद्भोगायतनं सुखदुःखसाक्षाकारावच्छेदकमित्यर्थः।
7
समुत्पन्नं असंकरेण जातमित्यर्थः।
8
तत्तत्कर्मानुसारेण कर्मफलदाता सवेशः ईश्वरः तत्तच्छरीरं तस्मै ददातीति संकरशंकायाः नाबसरः इति समुपसगेण पूर्वकर्मणेति-पदसहितेन द्योतितम्।
9
इदानीं स्थूलदेहः यदात्मत्वेनाभिमन्यते तां अवस्थामाह तस्य व्यावृत्त्वं आत्मनः अनुवृत्त्वं च सम्यग्बोधयित्वा तत्रानात्मत्वं स्पष्टयितुं।
10
तस्य स्थूलदेहस्य अवस्था असाधारणी भोग-हेतुत्वप्रयोजकः कालः जागरः, "इंद्रियैर्थोपलब्धिजागिरतं" इति लक्षणलिखिता जाग्रदवस्थेत्यर्थः।
11
तदेव विशदयति स्थूलार्थानुभवो यतः, अथेषु स्थूलत्वं च दिगादिभिमानि-देवतानुगृहीत-श्रोत्रादीन्द्रियगृह्यमाणत्वं शब्दादिषु।
12
स्वप्ने इन्द्रियाणां उपरतव्यापारत्वात् वासनामयानां शब्दादीनां देवतानुगृहीत-इन्द्रिय-गृह्यमाणत्वं नास्ति।
13
मनसः इन्द्रियत्वपक्षे इन्द्रियगृह्यमाणत्वेपि तत्र तद्राहकलेन प्रसिद्धेन्द्रियगृह्यमाणत्वं नास्ति इति भावः।
14
यतः स्मात् स्थूलशरीरात् तत्राभिमानात् स्थूलार्थानुभवः, ततः तत्कारणात् तस्य स्थूलदेहस्य जागरः अवस्थेत्यर्थः॥९०॥
Śloka 89
All Ślokas
Śloka 91