विवेकचूडामणि
Śloka 91
Glossary
View Book
Verse
श्लोकः
Expand all
1
बाह्येन्द्रियैस्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादि-विचित्र-रूपाम् ।
2
करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥९१॥
Śloka 90
All Ślokas
Śloka 92
Commentary
व्याख्या
Expand all
1
बाहेन्द्रियैः त्वग्घ्राणचक्षुरादिभिः —
2
स्रक्चन्दनस्त्र्यादिविचित्ररूपां — रूप्यते विषयीक्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्चन्दनं च स्त्री च आदिः येषां तानि स्रक्चन्दन-स्त्र्यादीनि तानि विचित्र-रूपाणि यस्यां सा —
3
स्थूलपदार्थसेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम्, अभिमानि-देवतानुग्रह-प्रयोजन-स्थूलानाम् —
4
जीवः प्रत्यगात्मा, एतदात्मना स्थूल-देहात्मना मनोद्वारा स्थूलशरीर-प्रतिफलितस्वरूपेण स्थूलशरीराध्यस्तात्म-भावेनेति यावत् स्वयं करोति —
5
स्वप्ने तावत् स्थूलदेहे मनस्संयोगाभावात् तत्र स्वरूपप्रतिफलनमपि नास्ति इति तस्य तदा भोगहेतुत्वं नास्ति —
6
अपितु तदा कल्पितस्य अन्यस्य स्थूलगदेहस्य वासनामयस्य —
7
प्रसिद्धं किल स्वप्ने प्रसिद्ध-स्थूलदेहव्यतिरिक्त-तिर्यग्देवादि-देहरूपेण भोगानुभुजत इति —
8
तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां प्रशस्तिः प्रामुख्यमित्यर्थः —
9
स्वप्नसुषुप्त्योरत्र अभिमानस्यैवाभावादिति भावः —
10
इत्थं च तयोरवस्थयोरभासमानस्य जाग्रति परं प्रतीयमानस्यानात्मत्वं व्यावृत्त्वात् सिद्धमिति भावः —
11
सर्वावस्थासाक्षिणस्तात्मनः अनुवृत्त्वादेतदिभरत्वं सुज्ञानम् ॥९१॥
Śloka 90
All Ślokas
Śloka 92