विवेकचूडामणि
Śloka 95
Glossary
View Book
Verse
श्लोकः
Expand all
1
निगद्यतेऽन्तःकरणं मनो धीरहं कृतिश्चित्तमिति स्ववृत्तिभिः ।
2
मनस्तु संकल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः ॥९५॥
Śloka 94
All Ślokas
Śloka 96
Commentary
व्याख्या
Expand all
1
अन्तःकरणमेकमेव स्ववृत्तिभिः वक्ष्यमाणाभिः मनः, धीः बुद्धिः, अहंकृतिः अहंकारः, चित्तमिति च चतुर्धा निगद्यते इत्यर्थः —
2
नामचतुष्टय-निमित्तत्त्वक्तीराह संकल्पविकल्पनादिभिः मन इति —
3
संकल्पः सम्यक्त्वयुक्तिः विकल्पः विकल्पना विविधं संशय इति यावत् —
4
पदार्थाध्यवसायः पदार्थ-निर्णयः तद्रूपधर्मतः वृत्तिः बुद्धिरुच्यते —
5
अत्र शरीरादौ अभिमानात् अहंमितयव्यासात् अहंकृतिः अहंकार इति च उच्यते —
6
स्वार्थिनुसंधानगुणेन स्मरणवृत्त्येत्यर्थः चित्तमिति कथ्यते ॥९५॥
Śloka 94
All Ślokas
Śloka 96