विवेकचूडामणि
Śloka 94
Glossary
View Book
Verse
श्लोकः
Expand all
1
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घाणं च जिह्वा विषयावबोधनात् ।
2
वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९४॥
Śloka 93
All Ślokas
Śloka 95
Commentary
व्याख्या
Expand all
1
कर्णेन्धुकुलयविचिच्छं नभः श्रवणं श्रोत्रं —
2
त्वक् त्वचि स्थितमिन्द्रियं —
3
अक्षि नेत्रगोलकाविच्छिन्नं चक्षुरिन्द्रियं —
4
घ्राणं नासावच्छिन्नं —
5
जिह्वा रसनेन्द्रियं —
6
एतानि पञ्च शब्दस्पर्श-रूपगन्ध-रसात्मक-विषयावबोधनात् तत्तज्ज्ञाननजननात् ज्ञानेन्द्रियाणीति कथ्यन्त इति शेषः —
7
वाग्वागिन्द्रियं वचनशीलं —
8
पाणिः हस्तेन्द्रियं आदानशीलं —
9
पादः विहरणशीलं पादेन्द्रियं —
10
गुदं उपस्थं अनयोः क्रमेण शारीर-कठिन-द्रवरूप-हेयभागोत्सर्जन-हेतुत्वं —
11
एतानि वचनादि-कर्महेतुभूतानीति कर्मेन्द्रियाणीत्युच्यत इति शेषः —
12
तत्र हेतुः प्रवणानि व्यग्राणि कर्मसु वचनादिष्वित्यर्थः ॥९४॥
Śloka 93
All Ślokas
Śloka 95