विवेकचूडामणि
Śloka 97
96
All
98
Glossary
विवेकचूडामणि
Śloka 97
100%
Commentary — व्याख्या
1
यथा एकमेव सुवर्णं कटकं केयूरं कुण्डलमित्यादि-विकृतिभेदेन भवति —
2
यथा च विकृतिभेदेन एकमेव जलं नदी कुल्या तटाकमित्यादिरीत्या भेदेन भवति —
3
तथा असौ शरीरान्तःसञ्चारी प्राणः स्वयमेव वृत्तिभेदात् प्राणापान-व्यानन-समानोदानरूपप्रवृत्तिभेदात् प्राणापान-व्यानोदान-समाना इति भेदेन भवति —
4
सुवर्णसलिलमिव — सुवर्णसहितं सलिलं सुवर्णसलिलं तद्वत् इति विग्रहः। प्रत्येकमर्थो बोद्धव्यः —
5
यथा विकृतेभेदात् एकमेव सुवर्णं भिन्नत्वेन व्यवहियते यथा च विकृतेभेदादेव एकमेव जलं तरङ्ग-फेनबुद्बुदादिभेदेत व्यवहियते तद्वदित्यर्थः —
6
तत्र प्राणनं मुखनासिकास्याव निःक्रमण-प्रवेशनं —
7
अपाननं मलादीनां अधोनयनं —
8
व्याननं अशितपीताम्नरसादेः नाडीमुखेषु वितरनं —
9
उर्ध्वं नयनं उदानतं वमनकाले —
10
भुक्तस्याम्नरसादेः पाकार्थं जाठरागेन समुद्नयनं समाननं इति वृत्तयः पञ्च प्राणस्य ॥९७॥
96
All
98
En