विवेकचूडामणि
Śloka 98
97
All
99
Glossary
विवेकचूडामणि
Śloka 98
100%
Commentary — व्याख्या
1
वागादिपञ्चं कर्मेन्द्रियाणि —
2
श्रवणादिपञ्चं ज्ञानेन्द्रियाणि —
3
प्राणादिपञ्च प्राणपञ्चकं —
4
भ्रमुखाणि पञ्च आकाशादि-सूक्ष्मभूतपञ्चकं —
5
बुद्ध्यादि अन्तःकरणचतुष्टयं —
6
अविद्या अध्यासः —
7
कामकर्मणी कामः इच्छा कर्म धर्माधर्माख्यं —
8
एतत्सर्वे मिलितं पदार्थाष्टक-समुदायोपेतं पुर्यष्टकं सूक्ष्म-शरीरमाहुः वेदान्तिन इति शेषः —
9
वागादिपञ्चकं १, श्रवणादिपञ्चकं २, प्राणपञ्चकं ३, भूतपञ्चकं ४, बुद्ध्यादिचतुष्टयं ५, अविद्या ६, कामः ७, कर्म ८ ॥९८॥
97
All
99
En