विवेकचूडामणि
Śloka 100
Glossary
View Book
Verse
श्लोकः
Expand all
1
स्वप्नो भवत्यस्य विभक्तवस्था, स्वमात्रशेषेण विभाति यत्र ।
2
स्वप्ने तु बुद्धिः स्वयमेव जाग्र-कालीन-नानाविधवासनाभिः ॥
3
कर्त्रादिभावं प्रतिपद्य राजते, यत्र स्वयंज्योतिरयं परात्मा ॥१००॥
Śloka 99
All Ślokas
Śloka 101
Commentary
व्याख्या
Expand all
1
अस्य सूक्ष्मशरीरस्य, विभक्तवस्था भेदकावस्था, स्वप्नो भवति —
2
जागरस्साधारणत्वात् सुषुप्तावेव लीनत्वात् स्वप्न एव सूक्ष्मस्य प्राधान्यमिति भावः —
3
तत्र हेतुं संगृह्णाति स्वमात्रैदिना —
4
स्वमेव स्वमात्रं तस्य शेषः अवशिष्टत्वं अभिमन्यमानेन स्वेनैव केवलमित्यर्थः —
5
तदा स्थूलदेहे अभिमानाभावात् सूक्ष्मदेहस्यैव विशेषतोभिमन्य-मानत्विति —
6
यत्र स्वप्ने स्वमात्रपरिशेषेण स्थूलाभिमानं परित्यज्य सूक्ष्मशरीरमात्रविषयेण अभिमानेन विभाति प्रकाशते, आत्मा इति शेषः —
7
संगृहीतमर्थं स्वमात्रशेषेण विव्णोति स्वप्नेत्यादिना —
8
स्वप्ने तु स्वप्नावस्थायां बुद्धिः अन्तःकरणं, स्वयमेव कारकान्तरनिरपेक्षं —
9
जाग्रत्कालीन-नानाविधवासनाभिः जाग्रत्काल-नानाविधावस्थायां जाते वहुविधैः संस्कारैः —
10
कर्त्रादिभावं कर्तृत्वं भोक्तृत्वं कर्मत्वं अधिकरणत्वं सकल-क्रिया-कारकभावमिति यावत्। प्रतिपद्य प्राप्य, राजते प्रकाशते —
11
ननु जडस्य अन्तःकरणस्य कथमीदृशी शक्तिः? —
12
शरीरान्तर्गतनाडीषु हितामिधानासु यदा मनः संचरति तदा स्वप्न इति श्रुत्या प्रतीते। तत्र प्रकाशस्य दूरापास्तत्वात् इति चेत्तत्राह यत्र स्वयंज्योतिरयं परात्मा इति —
13
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" —
14
"यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं" इति श्रुतिस्मृत्याम्प्रापकस्य ज्योतिरूपस्य चैतन्यज्योतिषस्य परमात्मनः संबधात् अन्तःकरणस्य इयं शक्तिः जाग्रत्कालिक-वासना-सहकृतस्य —
15
ननु "सत्यं ज्ञानं" "विज्ञानमानन्दं ब्रह्म" "अयमात्मा ब्रह्म सर्वानुभूः" "प्रज्ञानं ब्रह्म" इत्यादिश्रुतिभ्यः आत्मनः सार्विदिक-चैतन्यरूपतवेन स्वयंज्योतिष्टवस्य सर्वदा सर्वत्र —
16
किं विशेषेण स्वप्ने स्वयंज्योतिरयं परात्मा इति स्वप्न एव तदुच्यते इति चेच्छृणु तत्र कारणम् —
17
बृहदारण्यकगत-ज्योतिर्ब्राह्मणस्य आमूलचूडं परिशीलनेन इदं स्पष्टं सुज्ञानम् —
18
तत्र हि "किंज्योतिरयं पुरुषः" इति जनकेन पृष्टो भगवान् याज्ञवल्क्यः आदौ सर्वलोकप्रसिद्धं सूर्यं तस्मिन्नस्तमिते चन्द्रं तस्मिन्नस्तमिते यते अग्निं तस्मिन्शान्ते वाचं शान्तायां च तस्यां आत्मानं ज्योतिरुवाच —
19
शान्तायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिषास्ते पत्यते कर्म कुरुते विपलेत्यत्यन्तेन —
20
यदपीदं ज्योतिष्टवं सदालनं, तथापि जाग्रति करणाद्यनुग्राहकाणां इतरेषां आदित्यादीनां बाह्यानां ज्योतिषां सत्त्वेन —
21
सत्त्व-दशायां आन्तर-बाह्य-कार्यकारण-संघातव्यवहारस्य संकुलतायां च न विविक्तं दर्शयितुं शक्यते —
22
सुषुप्तौ विविक्तत्वेपि प्रकाशवस्तुनोभावात् तदा सर्वस्य दृश्यस्य लीनत्वात् —
23
यद्यपिस्ति अज्ञानं तथापि तद् अभाव-रूपत्वेन चर्चास्पदमतः जाग्रत्काल इव तत्र व्यवहारः सर्वो वर्तते —
24
अपितु बाह्यज्योतींषि न सन्ति स्थूलशरीरे नास्ति बाह्यकरणानां चोपरतव्यापारत्वं —
25
तदा मनः एकमेव आत्मज्योतिःप्रतिफलनमिह्मन्ना जाग्रदवासनाविशिष्टं सर्वकारतां भजत इति विविक्तस्वयंज्योतिष्टवमुपदिश्यमानं स्वमानं भवतीत्यभिप्रायेण "अत्रायं पुरुषः स्वयंज्योति" रित्युक्तिः —
26
यथा सर्वदापि सजातीय-विजातीय-स्वगतभेदरहितानाधितब्रह्मरूपेण जातः सर्वेपि सृष्टे प्राक् "सदेव सोम्येदम् मध आसीदेकमेवाद्वितीयं" इति श्रोतृबुध्यारोहाय छान्दोग्ये उपदिष्टं —
27
तदत्तु स्वप्ने मनसः जाग्रत्संस्कार-युक्तस्य जडस्य परापरात्मदशायां चैतन्ययुक्तस्य-स्वरूप-प्रतिफलनवशादेव सूर्यचन्द्रादि-प्रकाशक-रूपेण घटपटादिप्रकाश्यरूपेण परिणमानत्वयोस्ता —
28
अत एव अन्धादयोपि स्वप्ने पदार्थान्पश्यन्ति। तेषां जागरे चक्षुरभावात् कथं दर्शनं? —
29
मन एव चक्षुरूपेण आत्मशक्त्या प्रतिफलमत इत्येव वक्तव्यम् —
30
एवं चक्षुरादित्यादि-ज्योतिरभावदशायां प्रतिभासमान-सकलपदार्थभासकत्वं आत्मन एवेति श्रोतृबुद्धौ स्फुटमारोहयितुं शक्यत्वात् यत्र स्वयंज्योतिरयं परात्मा इति श्रुत्यनुसारेणोक्तं मूले ॥१००॥
Śloka 99
All Ślokas
Śloka 101