विवेकचूडामणि
Śloka 99
Glossary
View Book
Verse
श्लोकः
Expand all
1
इदं शरीरं शृणु सूक्ष्मसंज्ञितं, लिंगपञ्चीकृत-भूतसंभवम् ।
2
सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादि-रूपाधिरात्मनः ॥९९॥
Śloka 98
All Ślokas
Śloka 100
Commentary
व्याख्या
Expand all
1
सूक्ष्मसंज्ञितं — सूक्ष्ममिति संज्ञा सूक्ष्मसंज्ञा सा अस्य संजातेति सूक्ष्म-संज्ञितं, इदं शरीरं —
2
तस्य जन्यत्वादपि नित्यात्मरूपत्वं नेत्याह अपञ्चीकृत-भूतसंभवम् —
3
अपञ्चीकृतानि यानि भूतानि गगनाद्यानि तेभ्यः संभवः उत्पत्तिः यस्य तत् —
4
इदं सूक्ष्मसंज्ञित्वे हेतुः —
5
लिंगं — लिंग इत्यस्माद्धातोः ज्ञापकात्मन् इत्यर्थः —
6
वागादीनां करणानां जडानां अधिष्ठातारन्तरा तत्तत्कार्ये प्रवृत्त्युत्पत्तेः, अचेतनं चेतनाधिष्ठितं कार्यं करोतीति दृष्ट्वात्वात् —
7
विह्वरतः-करणचित्तं इदं शरीरमेव लिंगमित्युच्यते इत्यर्थः —
8
तुरवघारणे, सुषुप्तौ ज्ञानस्य सर्वमतसिद्धत्वाभावात् जागरे स्वप्ने च मनोमूलकत्वेयैव ज्ञानस्य जायमानत्वात् —
9
मनसोपि जडस्य आत्मप्रतिफलमन्तरा इतरप्रकाशकवासंभवात् आत्मप्रतिविम्बग्राहिलेन आत्मज्ञापक-मनोघटितत्वाच्च —
10
अस्य शरीरस्य लिंगमित्युच्यम् —
11
आत्मनः निर्धर्मकत्वात् स्थूलशरीरस्य तदा तदा विनाशिचेलेन बहुत्वादामोक्षं स्थायिवासंभवात् —
12
पूर्वपूर्व-संस्काराणां जनिष्यमाणानुभव-जन्यसंस्काराणां च आमोक्षं स्थायिलिंग-शरीरमेवाश्रय इत्याह सवासनमिति —
13
वासनाभिः अनुभवजन्यसंस्कारैः सह वर्तत इति सवासनम् —
14
भोगहेतुत्वमप्यस्यैवाह, कर्मफलानुभावकं कर्मः पुण्यस्य पापस्य च कर्मणफले ये सुखदुःखे तदनुभवः भोगः तज्जनकम् —
15
सुषुप्तौ सवासनस्य लिंगशरीरस्य विलोनत्वादेव कर्मजन्य-सुखदुःखानुभवाभावः —
16
जाग्रदस्वप्नयोस्तु तदाविषयस्य लिंगशरीरस्य सत्त्वादनुभवः इत्यन्वयव्यतिरेकाभ्यां भोगहेतुत्वं तस्य ज्ञेयम् —
17
आत्मनः अनादिरूपाधिः इदं लिंगशरीरं, सूक्ष्मभुजन्यमपि महाप्रलयादावपि अभिव्यक्त्वाभ्यां एकैकवित्तिभ्यां अविदेहकैवल्यं अवतिष्ठत इति स्थूलशरीरवत्सादितवं नास्ति —
18
ननु असंगत्वेन केनाप्यनुपधीयमानस्य आत्मनः कथं लिंगेन सोपाधिकत्वं इत्यपत् आह स्वाज्ञानतः —
19
स्वस्वरूपस्य इदानींज्ञातत्वात् तन्मूलकः कल्पितः उपाधिरित्यर्थः ॥९९॥
Śloka 98
All Ślokas
Śloka 100