विवेकचूडामणि
Śloka 101
100
All
102
Glossary
विवेकचूडामणि
Śloka 101
100%
Commentary — व्याख्या
1
धीरेव धीमात्रं स्वार्थे कप्रत्यय:, धीमात्रकः उपाधियेस्य स्वन्न धीमात्रकोपाधिः
2
तत्कर्मलेपैः तया धिया कृतानि यानि कर्माणि तेषां लेपैः संबन्धैः न लिप्यते विशिष्टो न भवति ।
3
तत्र हेतुः अशेषसाक्षीति, अकर्तृत्वे सति बोद्धुरस्यैव साक्षित्वात्, कर्तृरेव कर्मलेपात्, नहि लोकेपि वादिप्रतिवादिकर्मभिः संबध्यते साक्षी, तद्विदत्यर्थः ।
4
"असंगोह्ययं पुरुषः" "असंगो निहि सज्जते" इत्यादिश्रुत्यनुसारेणासंगत्वाच्च ।
5
बुध्या वागादिना वा केनाप्युपाधिना क्रियमाणकर्मलेपोप्यस्य नास्तीत्याह यस्मादसंग इति ।
6
तत एव असंगत्वरूपकारणादेव उपाधिना कृतैः शरीरेण वाचा वा मनसा वा केनाप्युपाधिना कृतैः कर्मभिः समीचीनासमीचीनकर्मभिः किञ्चिदपि न लिप्यते न संबद्धो भवति ॥१०१॥
100
All
102
En