विवेकचूडामणि
Śloka 102
101
All
103
Glossary
विवेकचूडामणि
Śloka 102
100%
Commentary — व्याख्या
1
चिदात्मनः ज्ञानस्वरूपस्य, पुंसः पुरुषात्मनः, इदं लिंगं बुध्यादि-घटितं लिङ्गशरीरं, तक्षणः त्वष्टुः, वास्यादिकमिव तक्षणकरण-द्रव्य-विशेषादिकमिव
2
सर्वव्यापृतिकरणं सकलव्यापारासाधारण-कारणं, तक्षणोपि तक्षणकरणसत्वे दारादि-तक्षणसामर्थ्यं न स्वभाविकं
3
तथात्मनोपि आज्ञानिकलिङ्गशरीरसंबन्ध एव सकलोव्यवहारः ।
4
अत एव सुषुप्तौ न व्यवहारः लिङ्गशरीरसंबंधस्य तदा अभावात् ।
5
तेनैव लिङ्गशरीरसत्वे व्यापृतिः तदभावे तदभाव इति लोकसिद्धहेतुनैव ।
6
अयं आत्मा असंगः वास्तविक-सकलव्यवहार-संगहीनः भवतीत्यर्थः ॥१०२॥
101
All
103
En