विवेकचूडामणि
Śloka 103
102
All
104
Glossary
विवेकचूडामणि
Śloka 103
100%
Commentary — व्याख्या
1
आदौ बहिरिन्द्रियधर्मानाह ।
2
चक्षुषः सौगुण्य-वशात् पटुत्वं, वैगुण्यवशादत्वं मन्दत्वं ।
3
एवं श्रोत्रवैगुण्यात् बाधिर्यं मन्दत्वं । तत्सौगुण्यात् पटुत्वं ।
4
वागिन्द्रियवैगुण्ये मूकत्वं, तत्सौगुण्ये पटुत्वं ।
5
एवं त्वग्घ्राण-रसनरूपेषु ज्ञानेन्द्रियेषु पाणिपादादिषु कर्मेन्द्रियेषु च वेदितव्यम् ।
6
एतत्सर्वं नात्मनः । तत्र हेतुमाह वेत्तुरिति ।
7
चक्षुरादौ मन्दत्वपटुत्वादिकं वर्तमानं साक्षिणात्मना वेचत इति न वेद्यस्य वेत्तृधर्मत्वं संभवतीति भावः ।
8
तुरव-धारणे नैवेत्यर्थः ॥१०३॥
102
All
104
En